SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ धर्मपरीक्षा॥१७॥ तृतीयपरिच्छेदः जगाम सः॥१२६॥ कुतीर्थिकप्रणीतानि मिथ्याकृत्यान्यनेकशः। अतात्त्विकजनसान्तप्रीतये स्वुर्वथातथम् ॥१२७॥ देवत्वं पर्वतादीनां तीर्थत्वं पयसामपि । वृक्षारोपेषु पुण्याप्तिः पशूनामिह पूज्यता ॥ १२८ ॥ रजनीभोजने पुण्यं धर्म स्वानेन वारिणः । खर्गसंपत्समीहा च हिंसातो यज्ञकर्मभिः ॥ १२९ ॥ इत्याद्यनेकमिश्यात्वविषदोपापहारकः । धर्मः सत्कृत्यसंशुद्धः सम्यक सेव्यः शिवार्थिना ॥ १३० ॥ एवं महामोहविषार्तिहर्ता धर्मो भवेजात्यसुवर्णवन्नृणाम् । श्रीवाक्पतेः क्षोणिपतेरिव क्रमात्सर्वाङ्गसौख्योत्तमहर्षवर्षी ॥ १३१ ॥ इति श्रीसोमसुन्दरसूरिविनेयश्रीजिनमण्डनगणिनिर्मिते धर्मपरीक्षाप्रन्थे प्रथमगुणवर्णनो द्वितीयः परिच्छेदः ॥ २॥ अथ द्वितीयगुणमाहवरनाणकिरिअरूवो सोवन्नरसायणं व जिणधम्मो । सेविजंतो कम्मामयहरणो निधुई देहे ॥१॥ इह यथावस्थितदेवगुरुधर्मरूपतत्त्वत्रयजीवाजीवादिपदार्थसार्थसम्यग्ज्ञानश्रद्धानपूर्वकः सम्यगनुष्ठानविधिवत्पालनरूपः श्रीजिनोक्तधर्मः कुमारकनकवद्वाखान्तरङ्गामयहरणेन सौभाग्यारोग्यापादनपटुर्नितिदायको भवति ॥ यतः सम्यग्दर्शनशुद्ध पो ज्ञानं विरतिमेव चानोति । दुःखनिमित्तमपीदं तेन सुलब्धं भवपि जन्म ॥१॥ 25
SR No.600298
Book TitleDharmpariksha
Original Sutra AuthorN/A
AuthorJinmandangiri, Chaturvijay
PublisherJinshasan Aradhana Trust
Publication Year2002
Total Pages148
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy