________________
हे आमनरिंदेण सावयाईणं । दिन्ना गुरुवयणेणं एगा कोडी सुवन्नस्स ॥ १११ ॥ राजा गोपगिरौ चैत्यं क्रमाच्चक्रे महत्तमम् । सुवर्णकलशश्रेणिशोभितं तस्य शुद्धये ॥ ११२ ॥ सपादलक्ष गाङ्गेयटङ्ककैर्मूलमण्डपः । त्रैलोक्यसुन्दरस्तत्र निर्ममे तेन भूभुजा ॥ ११३ ॥ तथाऽष्टादशभिर्भारैर्जात्यजाम्बूनदस्य सः । निर्मितां प्रतिमां प्रौढां स्थापयामासिवान् नृपः ॥ ११४ ॥ तस्मिम् गजेन्द्रमारूढः सर्व सपरिच्छदः । देववन्दनपूजार्थं स प्रायाति दिने दिने ॥ ११५ ॥ स रैवतमहातीर्थवैभवं भुवनाद्भुतम् । श्रुत्वाऽन्यदा गुरोः पार्श्वे जगृहे भुक्त्यभिग्रहम् ॥ ११६ ॥ द्वात्रिंशता ततः पापक्षपणे क्षपणैरसौ । श्रीअम्बिकाप्रसादेन गिरिनारगिरीश्वरात् ॥ ११७ ॥ श्रीमन्नेमिजिनेन्द्रस्य विम्बं संमुखमागतम् । प्रणम्य पारणं चक्रे स्तम्भतीर्थाभिधे पुरे ११८ ॥ युग्मम् ॥ सोऽरिष्टनेमिनामानं प्रासादं विश्वतोऽद्भुतम् । निर्मा यातिष्ठिपद्धत्या तद्विम्बं तत्र भक्तितः ॥ ११९ ॥ तीर्थयात्रां ततश्चक्रे महोत्सवपुरस्सरम् । सङ्घाधिपपदाचारं विधाय विधिना नृपः ॥ १२० ॥ सुवर्णरजतादीनां सहस्रं देववेश्मनाम् । सहस्रं सपा आसन् श्रेष्ठिसामन्त मन्त्रिणः ॥ १२१ ॥ लक्षमेकं गवां पृष्ठवाहानां वाजिनां तथा । लक्षत्रयं गजेन्द्राणां सहस्रं तु रथैः समम् ॥ १२२ ॥ अयुतद्वितयं तत्र करभाणां भरोद्वहाम् । पदातीनां सहस्राणि पञ्चाशद्बलशालिनाम् ॥ १२३ ॥ विंशत्येकसहस्राणि कुलानि गृहमेधिनाम् । देशग्रामाधिपादीनां ख्याता सप्तशती पुनः ॥ १२४ ॥ एवं सविस्तरं तीर्थयात्रां निर्माय भूपतिः । सम्यग्दर्श ननैर्मल्यं विदधे जिनधर्मवित् ॥ १२५ ॥ एवं बहूनि वर्षाणि श्राद्धधर्मधुरन्धरः । राज्यं प्रपाल्य पूतात्मा देवभूयं
6