SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ धर्मपरीक्षा ॥ १६ ॥ तास्ततो राज्ञा जटास्ताः स्फुटमात्मनः । मेनिरे नृपमन्त्राद्याः सत्यपूत गुरोर्गिरम् ॥ १०६ ॥ सम्यग्धर्मस्य शुश्रूषा - मथ ज्ञात्वा महीपतेः । व्याजहार मुनिखामी सुधासोदरया गिरा ॥ १०७ ॥ द्विधा धर्मद्रुमाम्भोदो धर्मः सम्बगूजिनोदितः । साधुश्रावकयोर्योग्यो महाऽणुव्रतपालनात् ॥ १०८ ॥ अहिंसासत्यमस्तेयं ब्रह्माऽकिञ्चनता यमाः । सर्वात्मना यतीन्द्राणां देशतः स्यादगारिणाम् ॥ १०९ यतः पञ्चप्रकारमणुकत्र तमामनन्ति श्रेधा गुणव्रतमुशन्ति च वीतरागाः । शिक्षापदं परिगृणन्ति चतुर्विभेदं तद्वादशप्रकृतिरेष गृहस्थधर्मः ॥ १ ॥ सम्यक्त्वमूलमिममाहुरमी जिनेन्द्रा जीवादितत्त्वरुचिरेव तदुक्तमेभिः । एषाऽप्युदेति निकट स्थितभव्यतायां कर्मक्षयोपशमतादिनिबन्धनैव ॥ २ ॥ संसारबुद्दिजणयं मिच्छत्तं जेहि वज्जिअं दूरा । परमत्थेणं सहा अन्ने पुण नामओ नेया ॥ ३ ॥ वरं ज्वालाकुले क्षिप्तो देहिनात्मा हुताशने । न तु मिध्यात्वसंयुक्तं जीवितव्यं कदाचन ॥ ४ ॥ सङ्घत्थ उचिअकरणं गुणाणुराओ रई अ जिणवयणे । अगुणेसु अ मज्झत्थो सम्मद्दिट्ठिस्स चिन्हाई ॥ ५ ॥ दादाक्षिण्यं पापजुगुप्साऽथ निर्मलो बोधः । लिङ्गानि शुद्धद्द्टेः प्रायेण जनप्रियत्वं च ॥ ६ ॥ इत्यादिदेशनां श्रुत्वा प्रबुद्धः पृथिवीपतिः । सम्यक्त्वं सोत्सवं पार्श्वे गुरूणां प्रत्यपद्यत ॥ ११० ॥ सम्मत्तसुद्धि द्वितीयपरिच्छेदः ॥ १६ ॥
SR No.600298
Book TitleDharmpariksha
Original Sutra AuthorN/A
AuthorJinmandangiri, Chaturvijay
PublisherJinshasan Aradhana Trust
Publication Year2002
Total Pages148
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy