________________
SARKARGESS
प्रवेशोत्सवमालिनि ॥ ९३ ॥ अन्यदा सर्वराजन्यसमावां श्रीगुरूनिति । राजा प्रशंसयामास विद्वत्ता मुदिताशयः ॥ ९४ ॥ विभोऽत्रभवतां बोधसामर्थ्य मवतामहो !। सोऽपि यद्वाक्पतिर्भूमान् मिथ्याटग प्रतिबोधितः ॥९५॥ श्रुत्वेति सूरयः प्रोचुः श्रीआमं रजिताशयम् । राजन् ! ममास्ति का शक्तियत्त्वं नैव प्रबुध्यसे ॥९६ ॥ ततो गुरून नृपः स्नाह सम्यग्धर्मे जिनोदिते । लीनं तव गिरा खान्तं ममालिरिव नीरजे ॥ ९७ ॥ माहेबरं पुनर्धर्म मुञ्चतो मे महात्रपा । तत्याच्यभवसंबन्ध एवायं किं करोम्यतः ॥ ९८ ॥ श्रुतज्ञानोपयोगेन ज्ञात्वा गुरुरुवाच तम् । प्राग्जन्मकृतकष्टस्य राज्यं तेऽल्पतरं फलम् ॥ ९९ मत्र्यादिभिस्ततः पृष्टे राज्ञः प्राचीनजन्मनि । शृण्वत्सु तेषु सर्वेषु गुरुराजो जगौ तथा॥१०॥ गिरेः कालिजराख्यस्य समीपे सालपादपे। उर्कीकृत्य पदद्वन्द्वमधोभून्यस्तमस्तकः ॥१.१॥ जटाधारी मिताहारी क्षपणद्वयपारणे । एक वर्षशतं घोरं तपः कृत्वाऽतिदुष्करम् ॥१०२॥ आयुप्रान्ते तनुं त्यक्त्वा मासानशनपूर्वकम् । तस्मादज्ञानकष्टात्त्वं महानासीनरेश्वरः ॥ १०३ ॥ युग्मम् ॥ सम्यग्ज्ञानक्रियोपेतं कष्टं यदीशं भवेत् । कूसकर्मक्षयान्मोक्षं यान्त्यन्ये बहवोऽनिनः ॥१०४ ॥ यतः
मासे मासे अजो बालो कुसग्गेणं तु मुंजई। न सो सुअक्खायधम्मस्स कलं अग्घइ सोलर्स ॥१॥ तथा
एकपादस्थितो गङ्गातीरेऽङ्गी यस्तपस्यति । एकस्या जिनपूजायाः कलां नाईति षोडशीम् ॥१॥ यदि न प्रत्ययः खान्ते तदा तत्र स्थितां जटाम् । तरोतस्य तलादाप्सनरैरानीयतां स्फुटम् ॥ १०५॥ आनायि