________________
**
*
5*
5
परः ॥ ४६ ॥ सम्यक् तत्त्वगतत्वेन सुगतः सौगतैस्ततः । रागादिदोषजेतृत्वान्निष्कलको जिनः स्मृतः ॥ ४७ ॥ यतो योगशास्त्रे
आत्मधिया समुपातकायादिः कीर्त्यतेऽत्र बहिरात्मा । कायादेः समधिष्ठायको भवत्यन्तरात्मा तु ॥१॥ चिद्रूपानन्दमयो निःशेषोपाधिवर्जितः शुद्धः । अत्यक्षोऽनन्तगुणः परामत्मा कीर्तितस्तज्जैः ॥२॥
अथवात्मा गुणस्थानविभागात्रिविधो मतः । गुणस्थानानि गीयन्ते चतुर्दश जिनागमे ॥४८॥ गुणस्थानत्रये त्वाद्ये वर्तमानः शरीरभाग । तारतम्येन संशुद्धो बहिरात्मैव विश्रुतः॥ ४९ ॥ चतुर्थे पञ्चमे जीवो गुणस्थाने स्थितः। सुधीः । जघन्याऽशुभलेश्यावानन्तरात्मा मतः सताम् ॥५०॥ चतुर्थादिगुणस्थानाष्टके तु मध्य एव सः । क्षीणाशेषकषाये स्यादुत्कृष्टः स्थितिवानसौ॥५१॥सयोग्ययोगिरूपे तु गुणस्थानद्वये गतः। सिद्धात्मना समानोऽसौ परात्मा कथितो बुधैः॥ ५२ ॥ लोकानक्षेत्रं संप्रासोऽनन्तविज्ञानदर्शनः । सिद्धः साक्षात्परमात्मा परमज्योतिरुच्यते ॥५३॥ भव्ये मिथ्याडशि क्षमाप ! बाह्यात्मा व्यक्तिरूपतः । अन्त्यात्मद्वितयं शक्तिरूपेणान्तर्व्यवस्थितम् ॥ ५४ ॥ अभव्ये व्यक्तिरूपेण पूर्वात्मा तहयं पुनः । केवलं वर्तते शक्तिरूपेण व्यक्तितो न तु ॥ ५५॥ केवलज्ञानरूपेण न व्यक्ति - विनी कदा। निवृतिप्राप्त्ययोग्यस्याभव्यत्वे तस्य तन्मतम् ॥५६॥ अनादिभवमिथ्यात्वमोहापगमहेतवे । निरीक्ष्य सुकृतोल्लाससहर्षे तं नराधिपम् ॥ ५७ ॥ जगुर्युगोत्तमप्रष्ठा हे श्रीवाक्पतिभपते ।। परमार्थधिया सम्यग् परिभावय
54