SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ धर्मपरीक्षा ॥ १३ ॥ नाममीषां पठने सखे ! । इयं वेला कथं नाम सौहार्द तव चेशम् ॥ ३१ ॥ इदं च श्रीवप्पभट्टेः सदृशं भवतीह किम् । पारमार्थिकवाणीभिर्बोधवेला ममाधुना ॥ ३२ ॥ ततः प्राह गुरुः साधु साधु ते चेतनां स्तुमः । प्रष्टव्यमस्ति यत्किञ्चिद्भवत्पार्श्वे सुहत्तम ! ॥ ३३ ॥ श्रीमद्वाक्पतिना नत्वा पृछपतामित्युदीरिते । व्याजहार मुनिस्वामी सुधासारकिरा गिरा ॥ ३४ ॥ अयं व्रतविशेषस्ते हे कोविदशिरोमणे ! | देवताघ्यानसंन्यासखीकारादिमयोऽधुना ॥ ३५ ॥ किं मोक्षसुखलाभायाथवा साम्राज्यसंपदे । भवता सेव्यमानोऽस्ति निःसङ्गमनसाऽनिशम् ॥ ३६ ॥ यदि प्रेत्यवरैश्वर्यप्राप्तये ते तदा श्रितम् । परमार्थोपदेशेन बहिर्मुखैकचेतसः ॥ ३७ ॥ अथ मुक्तिसुखप्राप्तिहेतवे तर्हि भूपते ! । परार्थ सर्ववित्प्रोक्तं सावधानमनाः शृणु ॥ ३८ ॥ आत्मतत्त्वत्परिज्ञानं विना सम्यग् न जायते । जन्तोः शाश्वतसौख्याप्तिस्तपोभिर्दुस्तपैरपि ॥ ३९ ॥ बाहीकात्माऽन्तरात्मा च परमात्मा प्रकीर्तितः । जीवोऽयं त्रिविधस्तज्ज्ञैः सर्वदर्शनसंमतः ॥ ४० ॥ इन्द्रियादिसुखासको मोक्षसौख्यपराङ्मुखः । कायाभेदधिया ध्यातो बहिरात्मानिग - द्यते ॥ ४१ ॥ हेयोपादेयवस्तूनां विचारज्ञानवर्जितः । परस्परतया प्रेक्षाविभागविकलाशयः ॥ ४२ ॥ बहिरात्माऽथवा ज्ञेयः पञ्चाक्षसुखलम्पटः । एतस्माद्विपरीतोऽयमन्तरात्मा मतः सताम् ॥ ४३ ॥ रागद्वेषादिनिःशेषदोषक्लेशविवर्जितः । केवलज्ञानविज्ञातविश्वविश्वः सनातनः ॥ ४४ ॥ एकत्रिंशद्गुणैर्युक्तः परमात्मा भवेच्छिवः । ज्ञानात्मना जगद्व्यापी विष्णुसंज्ञां दधात्यसौ ॥ ४५ ॥ परमब्रह्मरूपत्वाद्रह्माऽसौ विश्रुतो जने । विश्वेश्वर्यमयत्वेन विख्यातश्च महे द्वितीयपरिच्छेदः ॥ १३ ॥
SR No.600298
Book TitleDharmpariksha
Original Sutra AuthorN/A
AuthorJinmandangiri, Chaturvijay
PublisherJinshasan Aradhana Trust
Publication Year2002
Total Pages148
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy