________________
४ भणइ गुरू रायाणो पुण्णकलासालिणो मए बहवे । बोहिजते रायं ! जइ इत्तो विहरि देसि ॥ १७ ॥ राजाऽवम्
भवता प्रायो बालगोपाङ्गनादयः । बहिर्मुखाः प्रबोध्यन्ते न तु शास्त्रार्थवेदिनः ॥ १८ ॥ शक्तिश्चेद्भवतां यद्यस्ति मध्ये मथुरमागतम् । पुराणपुरुषं नित्यं चित्ते घ्यायन्तमद्भुतम् ॥ १९ ॥ यज्ञोपवीतचिताङ्गं नासाग्रन्यस्तदृष्टिकम् ।।
तुलसीमालयालीढवक्षःस्थलमिलास्थितम् ॥ २०॥ श्रीकृष्णगानसतृष्णवैष्णवब्राह्मणान्वितम् । पत्रजीवकमालाभि-15 द मण्डितोरःस्थलं किल ॥२१॥वराहखामिदेवस्य प्रासादान्तरवस्थितम्। वैराग्यातिशयात्तत्र कृतप्रायोपवेशनम् ॥२२॥
प्रतिबोध्य तदा जैनमते स्थापयत द्रुतम् । वाक्पति राजसामन्तं पर्यङ्कासनसंस्थितम् ॥ २३॥ पञ्चभिः कुलकम् । एवं नरेश्वरप्रोक्तमजीकृत्य गुरूत्तमाः। वेदाष्टसंख्यसामन्तविद्वत्सहस्रसेविताः ॥ २४ ॥ विसृष्टा भूभृता तत्र प्रापुनिष्पापवृत्तयः । यस्मिन्नस्ति स राजेन्द्रगुरुः सामन्तपुङ्गवः ॥ २५॥ परिज्ञातगुणत्वेन पुरा पोरैः कृतादरैः। पूजिता राजलोकैश्च वाक्पत्याख्यनृपेण च ॥ २६ ॥ तस्यासन्ने स्थितासन्नवराहखामिवेश्मनि । तत्कखान्तपरीक्षार्थमेवमूचुर्मुनीश्वराः ॥ २७ ॥ दर्पणार्पितमालोक्य मायास्त्रीरूपमात्मनः । आत्मन्येवानुरक्तो वः श्रियं दिशतु केशवः ॥ २८ ॥ सन्ध्यां यत्प्रणिपत्य लोकपुरतो बद्धाञ्जलिर्याचसे धत्से यत्त्वपरां विलज्ज ! शिरसा तचापि सोढं मया । श्रीर्जाताऽमृतमन्थने यदि हरेः कस्माद्विषं भक्षितं मा स्त्रीलम्पट ! मां स्पृशेत्यभिहितो गौर्या हरः पातु वः ॥ २९॥ स कर्णकटुकं तच्च श्रुत्वा शीर्ष व्यधूनयत् । आकूण्य नाशिकां वाचं प्राहाथो दुर्मनायितः ॥ ३०॥ शृङ्गाररसकाव्या
CAMERA%AC%AC%4-%
घ.