________________
निपानमिव मण्डूकाः सरः पूर्णमिवाण्डजाः । कृतधर्माणमायान्ति विवशाः सर्वसंपदः ॥ १ ॥ भो लोकाः ! मम दूषणं कथमिदं संचारितं भूतले । सोत्सेका क्षणिकातिनिर्घृणतरा लक्ष्मीरिति खैरिणी । नैवाऽहं कुलटा न चास्मि चपला नो वा गुणद्वेषिणी । पुण्येनैव भवाम्यहं स्थिरतरा युक्तं हि तस्यार्जनम् ॥ २ ॥ शय्योत्थाय ततः कृत्वा शुचिरावश्यकक्रियाः । सप्तधा शुद्धिमान् देवपूजां प्राभातिकीं तथा ॥ ३६ ॥ गेहिनीं देहिनीं धर्मबुद्धिश्रेष्ठी जगाद ताम् । भद्रे । संपते गेहे कथं स्यान्मे प्रतस्थितिः ॥ ३७ ॥ सा तमाह विभो ! वेश्म दीयतां सह संपदा । कस्यचित्पुण्यपूतस्य स्वव्रतावनहेतवे ॥ ३८ ॥ सम्यगाराधितं दत्ते त्रतं सौख्यमखण्डितम् । खण्डिते खण्डितं शर्म भने दुःखं परं भवेत् ॥ ३९ ॥ यतः -
प्राणेभ्योऽप्यधिकं धर्म मन्यते पुरुषोत्तमः । प्राणांस्त्यजति धर्मार्थं तत्कृते नैव तं कचित् ॥ १ ॥ धर्मार्थ कृपया कीर्त्या दीयते वसुमत्यपि । महद्भिः संपदा साकं धीरोदात्ताशयैः पुरा ॥ ४० ॥ यतः
न याति दीयमानाऽपि श्रीवेदीयत एव तत् । तिष्ठत्यदीयमानाऽपि नो चेद्दीयत एव तत् ॥ १ ॥
एवं प्रयोपदेशेन प्रेरितोऽसौ सदग्रणीः । कस्यचित्स्वगृहं तादृग् दत्तवानाईतस्य सः ॥ ४१ ॥ अहो ! दानमहो ! सत्त्वमहोऽतिस्थिरता व्रते । उदघोषीति तत्त्यागविस्मितैर्नागरैस्तदा ॥ ४२ ॥ सम्यक् स्वधर्मरक्षार्थी विमुच्य नगरं निजम् । कृत्वा शीर्षे जिनाधीशमूर्तिरत्नकरण्डकम् ॥ ४३ ॥ गतश्रीकतया उज्जमानः खजनसन्ततौ । सपुत्रः प्रियया