SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ | प्रथप्रपरिच्छेदः ******** धर्मपरीक्षायामास प्रजापालनलालसम् ॥८२॥ युग्मम् ॥ विषयग्रामसंसर्ग मुक्त्वा मुक्तपरिग्रहः । विधिना धर्ममाराध्य लेभे देवपदं नृपः ॥ ८३ ॥ ततः पुरुषचन्द्राख्यं श्रुत्वा साम्राज्यदीक्षितम् । ते धातुवादिनः प्रापुस्तत्र खाभीष्टसिद्धये ॥८४॥ रससिख्या ततो जाताः शतशः वर्णकोटयः । गृहे क्षितिभृतस्तस्य तैः कृताः सुकृतोदयात् ॥ ८५॥ गुण*स्त्यागवतां वित्तं त्यागो वित्तवतां गुणः । अन्योन्यवियुतात्मानौ प्रायः पुंसां विडम्बना ॥८६॥ प्रायेण श्रीरसौ पुंसां वपुःसंस्कारकारणम् । तामुपस्कुर्वते ये तु रत्नसूस्तैरसौ रसा ॥ ८७ ॥ लक्ष्मीः सर्पति नीचमर्णवपयःसंगादिवाम्भोजिनीसंसर्गादिव कण्टकाकुलपदा न क्वापि धत्ते पदम् । चैतन्यं विषसंनिधेरिव नृणामुज्जासयत्यजसा धर्मस्थाननियोजनेन गुणिभिग्राह्यं तदस्याः फलम् ॥ ८८॥ इत्युदाराशयत्वेन स्वयं निध्याय मानसे भूपतिः पौरलोकानां योगक्षेमविधित्सया ॥ ८९ ॥ पुण्यात्मनां विशेषेण भक्त्यौचित्यचिकीर्षया । दीनदुःखितजन्तूनां निर्व्याज दयया तथा ॥९॥ अनेकहेमकोटीनां दानेनार्तिविनाशिना । चक्रे धर्मद्रुमाधारामुपकारपरंपराम् ॥ ९१ ॥ त्रिभिर्विशेषकम् । यतः परोपकारः कर्तव्यः प्राणैरपि धनैरपि । परोपकारजं पुण्यं न स्यात्क्रतुशतैरपि ॥ १॥ इति भागवते । तत्रान्यदा समायासीत्सूरिः श्रीगुणसागरः। सागरः सर्वलब्धीनां साधुपञ्चशतीवृतः॥९२॥ तत्रागत्य नमस्कृत्य क्षमाभृत्तं मुनीश्वरम् । धर्मखरूपमप्राक्षीतत्फलं च शिवप्रदम् ॥ ९३ ॥ FASKARSHAN **** ** **
SR No.600298
Book TitleDharmpariksha
Original Sutra AuthorN/A
AuthorJinmandangiri, Chaturvijay
PublisherJinshasan Aradhana Trust
Publication Year2002
Total Pages148
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy