________________
रुद्रशर्मणः । भाऽसौ विमला नामा वाणिजप्रामवासिनः ॥ ७१ ॥ मिथ्यापवाददोषेण सपल्या कथितेन तु । यमुनायाः पयःपूरे रहः पत्या प्रवाहिता ॥ ७२ ॥ युग्मम् ॥ तद्भामखामिना तस्मात् सानुक्रोशहदाऽमुना । उचा|रिता सती जाता तापस्खेषा तपःपरा ॥ ७३ ॥ नानातीर्यभुवः सेवां कुर्वती निःस्पृहाशया। श्रीरैवतगिरिं प्राप्य श्रीनेमि परमेधरम् ॥७४॥ सोपवासा समभ्यर्च्य नमश्चके पुनः पुनः। तत्पुण्येनाभवत्पुत्री तवयं कमलाभिधा ॥७५॥ नदीपूरावलोकन स्मृत्वा प्राच्यभवं निजम् । नरोपरि दधौ द्वेषं प्राग्भर्तुर्दोषदर्शनात् ॥७६ ॥ यतः
याशी जायते लेश्या समयेऽन्ये शरीरिणः । तादृश्येव भवेल्लेश्या प्रायस्तस्यान्यजन्मनि ॥१॥
तिरि नर आगामिमवलेसाए अइगए सुरा निरया । पुषमवलेससेसे अंतमुहुत्ते मरणमिति ॥२॥ इति । सोअपि प्रामाधिपः प्राणिकरुणारससागरः। दीनदुःखितजन्तूनामन्नदानकतत्परः ॥७॥ अनसूयमना न्यायमागोतिक्रमभीतिमान् । सामान्यधर्मपूतात्मा मृत्वाऽऽसीचे सुतापतिः ॥ ७८ ॥ यतः
पुरस्ताद्यावतीं यस्य पदवी दातुमिच्छति । धर्मः सुप्रभुवत्सेवां सहते तस्य तावतीम् ॥१॥ सतो निशम्य भूमीशस्तयोः प्राच्यभवस्थितिम् । संवेगरगवान् धर्म प्रपेदे श्रीगुरूदितम् ॥ ७९ ॥ सम्यग्दर्शनसंशुद्धां पालयन् द्वादशवतीम् । सम्यक्तत्त्वविचारेण नृपोऽभूदार्हताग्रणीः ॥ ८॥ लोकोत्तरगुणग्रामैः सर्वतो विश्रुतं सुतम् । श्रीनिवासघराधीशः श्रुत्वा तत्र पुरि स्थितम् ॥८१॥ सकलत्रं समाहूय सकलत्रे निजे. पदे । सोत्सवं स्थाप