________________
5555
म्बुजात् । पपात खटिका किञ्चिद्विस्मृत्याधोभुवि ध्रुवम् ॥ ४२ ॥ प्रसारिते करे तेन लीलया तजिघृक्षया । खटिकामार्पयत्तस्मै तत्रस्था चित्रपुत्रिका ॥४३॥ एतदद्भुतमालोक्य सा दध्यो विस्मिताशया । नूनं महानुभावोऽयं कोऽपि भूपसुतः कृती ॥४४॥ आगत्याथ खरूपं तन्मातुरने जगाद सा। धात्र्यपि क्षितिभृत्पुत्र्यै प्रेमस्थेमकृते जगौ ॥४५॥ एष वत्से ! नराधीशनन्दनः कोऽपि वर्तते । आसन्नराज्यलाभश्रीः प्रभावाजगदुत्तमः ॥४६॥ अन्यथा देवता नास्य सांनिध्यमिति कुर्वते । विनासन्नं रवर्बिम्ब न स्यात् प्राची स्फुरन्महाः ॥४७॥ सोत्साहा राजकन्याऽपि तन्निशम्य जगाद ताम् । वाचः सुधामुचो मातस्तव किं साम्प्रतं फलम् ॥४८॥ तामाह स्म ततो धात्री त्वत्पाणिग्रहणं फलम् । योगो यत्कल्पवृक्षेण युक्तिमान् कल्पवीरुधः॥४९॥ विचारेऽथ तयोरेवं जायमाने सुधाति । आलानस्तम्भमुन्मूल्य पट्टहस्ती महीभुजः ॥५०॥ मदोन्मत्ततया खैरं भ्रमन् कल्पान्तभीषणः । नगरं व्याकुलीचक्रे मातङ्गेषु दया नहि ॥५१॥ युग्मम् ॥ नरेन्द्रादेशतो वीरवर्गे तद्हणोत्सुके । इतस्ततो भयभ्रान्तीभूतेषु पुरवासिषु ॥ ५२ ॥ लोककोलाहलं श्रुत्वा जागरूकभुजोर्जितः । श्रीमान् पुरुषचन्द्रो द्राग् गजशिक्षाविचक्षणः ॥५३॥ गलदर्प विनिर्माय मुष्टिघातर्बलोल्बणैः । गजेन्द्र स्थापयामास भूमिवासववेश्मनि ॥५४॥ त्रिभिर्विशेषकम् ॥ राजा
भुजोर्जितं तस्य दृष्ट्वा दध्यौ सविस्मयः । अयमेव वरो योग्यः सुताया विक्रमाद्भुतः ॥ ५५ ॥ सगौरवं तमानीय |निजावासे ततो नृपः । पाणिग्रहार्थ कन्यायै ज्ञापयामास सा परम् ॥ ५६ ॥ प्राचीनपुरुषद्वेषवती सा नैव