SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ SHRSHA कथं न्यायधर्मकर्मपराङ्मुखः ॥१८॥ वाजिवारणवीराणां संग्रहाय महीमुजाम् । न्ययो हि संपदां युक्तो न पुनः केलिशाकर्मसु ॥ १९ ॥ उत्तमानां मवेलक्ष्मीव्ययः सद्धर्मकर्मसु । मध्यमानां गृहाद्यर्थमधमानां कुकर्मसु ॥ २०॥ बलानामिह सर्वेषां संपदो हि वलं महत् । तृणायापि न मन्यन्ते श्रिया मुक्ता नृपा अपि ॥ २१ ॥ यतः समाश्रयन्ति सर्वेऽपि प्रायेण विभवं गुणाः । गुणश्चटति चापेऽपि कोटिद्वयसमन्विते ॥१॥ अर्जयित्वा ततः वर्णकोटिं पुण्योदयान्निजात् । आगन्तव्यं त्वया पुत्र! नेत्रयोमम गोचरम् ॥ २२॥ एवं तातोक्तिदूनात्मा सुकृती राजसूस्ततः । मण्डलामसखा सायं ययौ देशान्तरं प्रति ॥ २३ ॥ नमस्यन्नैकतीर्थानि पादचारी पथि ब्रजन् । सप्ताहैर्विपिने कापि प्रापद्देवालयं क्रमात् ॥ २४॥ धनदप्रतिमा तत्राधिष्ठात्री काञ्चनद्युतिः । सम्यग्वैनयिकी वृत्तिं वीक्ष्यानन्दितमानसा ॥ २५॥ प्रीता देवागनानीतैर्भोज्यरार्यजनोचितैः । आतिथ्यं निर्ममे तस्मै कृती यत्सर्वदा सुखी ॥ २६ ॥ युग्मम् ॥ यतः सर्वत्र वायसाः कृष्णाः सर्वत्र हरिताः शुकाः । सर्वत्र दुःखिनां दुःखं सर्वत्र सुखिनां सुखम् ॥१॥ ___ अथासौ निकटे तस्य धमतो धातुवादिनः । सुवर्णसिद्धये धातून् दृष्ट्वोदाराशयोऽब्रवीत् ॥ २७ ॥ निष्प्रत्यूह मनोऽभीष्टगरिष्ठरससिद्धितः । भवन्तः सुकृतोल्लासात्सन्तु सिद्धमनोरथाः ॥ २८ ॥ तेऽप्यूचुः खागतं तेऽस्तु खनामाख्यानपूर्वकम् । तिष्ठ विष्टपकार ! परं नः संनिधौ क्षणम् ॥ २९ ॥ बह्वन्तराया दुष्प्राप्याऽप्यस्माकं पापकर्म- CAONLAOACANCCANCCC
SR No.600298
Book TitleDharmpariksha
Original Sutra AuthorN/A
AuthorJinmandangiri, Chaturvijay
PublisherJinshasan Aradhana Trust
Publication Year2002
Total Pages148
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy