________________
धर्मपरीक्षा
प्रस्तावना.
॥२॥
ROSM ARACCOCALCUS
अमीषां सत्तासमयादिविषया जिज्ञासा तु मुद्रितकुमारपालप्रबन्ध-श्राद्धगुणविवरणयोःप्रस्तावनानिवर्णनेनैव परिशाम्यतीत्यत्र भूयो न प्रतन्यते ।
अस्य संशोधनसमये द्वे एव पुस्तके समुपलब्धे । ते च क्रमेण द्विपञ्चाशत्-त्रिचत्वारिंशत्पत्रात्मके श्रीमदणहिल्लपुरपत्तनपत्तनस्थतपागच्छीयपुस्तकभाण्डागारसत्के श्रेष्ठि-हालाभाइ-तनुज-लेहेरचन्द्रद्वारा संप्राप्ते नातिशुद्धे प्राचीने च ।
परिच्छेदे चान्त्येऽस्मिन् ग्रन्थे यत्कथानकं त्रुटितं तद्बहुष्वादशेषु ताहगेव वर्ततेऽतः येषां केषाश्चिन्मुनिवराणां पार्श्व एतत्कथानकपूर्ण पुस्तकं स्यात्तेः सूचयिष्यन्ति चेत्तर्हि तन्मुद्रणे न करिष्यते प्रमादः।
अस्य मुद्रणोपयोगिपरिपूर्णद्रव्यसाहाय्यं मुनिश्रीमन्माणिक्यविजयोपदिष्टया जामनगरवास्तव्यया ओशवाल ज्ञातिसंजातया मणीबाईनाच्या सुश्राविकया प्रदत्तम् । अत इत्येतस्याः परोपकारविषयमेतत्कार्य प्रशंसाहमिति कथनं नात्रानुचितम् ।
अनन्तरोक्तपुस्तकद्वितयाधारण सावधानतया संशोधितेऽप्यत्र प्रबन्धे दृष्टिदोषेणाक्षरयोजकदोषेण वा यत्र वचनाsशुद्धिः कृता जाता वा भवेत्तत्र सम्यक् संशोध्य वाचनीयं धीधनैरिति प्रार्थयते
प्रवर्तकश्रीमत्कान्तिविजयचरणसेवाहेवाकः
चतुरविजयो मुनिः।
KARAACA%ACAKARAN
का
॥२
॥