SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ प्रस्तावना। 1454546 SARASHARASHARE इह हि चतुर्गतिसंसारसम्बन्ध्यतितीव्रतररोगशोकवियोगादिदुःखदावानलदग्धानां तथाविधातिविशुद्धमतिविकलानां सांप्रतकालीनभव्यसत्त्वानां जिनेश्वरोदितविशुद्धसिद्धान्तमध्यवर्तिपदार्थसार्थश्रवणं तच्छ्रद्धाकरणं शक्त्यनुसारेण तथा-1 विधधर्माराधनं चैवैहिकपारत्रिकसुखसन्दोहजनकम् । अत एवामीषां धर्मरुचीनां प्राणिनां तथाविधावितथधर्मस्वरूपाव-18 गमाय परोपकृतिपरिशीलनप्रवरैरेतदन्थप्रणेतृभिवृहत्तपागच्छीयमहोपाध्याय-श्रीमजिनमण्डनगणिभिर्विषघातरसायनाद्य-गाल टगुणाश्चितस्य कुमारकनकस्योपमानेन सम्यक्त्वादिपरिपालनरूपाष्टगुणोपेतस्य धर्मस्य मिथ्यात्वविषघातादिसामर्थ्यमुपदर्शनद्वारेणाष्टपरिच्छेदात्मक सुखावबोधं सान्वर्थाभिधानं तत्तद्विषयपरिपुष्टिविधायकात्याश्चर्यजनककथानकोपवर्धितं धर्मपरीक्षानामकं शास्त्रं निबद्धम् । एतद्धन्थस्य विषयविभागस्त्वेतदवलोकनेनैव स्वयमेवावभोत्स्यते बुद्धिमद्वाचकमहाशयैरिति नातिकथने ममावश्यकतेति विरमामि। ___ अस्य प्रणेतृभिरेतव्यतिरिक्तौ कुमारपालप्रबन्ध-श्राद्धगुणविवरणनामकावन्यावपि द्वौ ग्रन्थौरचितौ वते । तौ च मया मागेव संशोधयित्वा भावनगरस्थ-आत्मानन्दपरिषत्कार्याधिकारिद्वारा मुदयित्वा प्रकाशं नीती । 4 35 *
SR No.600298
Book TitleDharmpariksha
Original Sutra AuthorN/A
AuthorJinmandangiri, Chaturvijay
PublisherJinshasan Aradhana Trust
Publication Year2002
Total Pages148
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy