________________
धर्मपरीक्षा -
॥ ४५ ॥
कोऽपि तादृशः ॥ १६ ॥ श्रीज्ञानसागरः सूरिः पूर्वश्रुतविदप्रणीः । अन्यदा समवासार्षीत्पुरे तत्र तपोनिधिः ॥ १७ ॥ वन्दित्वा तं नृपोऽप्राक्षीन्मीनहासप्रयोजनम् । सम्यक् श्रुतोपयोगेन ज्ञात्वा तं गुरुरब्रवीत् ॥ १८ ॥ नात्र मीतिस्त्वया कार्या प्रकृतेर्विकृतिर्नहि । ज्ञातपूर्वी जहासासौ किन्तु प्राग्जन्मनः स्थितिम् ॥ १९ ॥ ततः क्षितिभृता पृष्टः खप्राचीनभवस्थितिम् । भव्यानां प्रतिबोधार्थ गुरू राज्ञो जगौ यथा ॥ २० ॥
पुरेऽत्रैव भवानासीदेकाकी कुलपुत्रकः । कुर्वन्नाजीविकां काष्ठभारानयनकर्मणा ॥ २१ ॥ गृहाद्यभावतो नद्या अस्यास्तीरे शिलातले । स्थालाकारीकृते सक्तून् पयसालोड्य पाणिना ॥ २२ ॥ अश्वासि प्राणवृत्त्यर्थं सततं गुडमिश्रितान् । षड्रसैः संस्कृतं भोज्यं नहि पुण्यं विना भवेत् ॥ २३ ॥ गच्छन्नेकोऽन्यदा साधुर्मासक्षपणपारणे । पुरं प्रति त्वया दृष्टो हृष्टेनाचिन्ति चेतसा ॥ २४ ॥ पारणार्थं पुरं गच्छन्नेष साधुस्तपोनिधिः । अद्य नेत्रातिथिर्जज्ञेऽतिथिर्मे सुकृतोदयात् ॥ २५ ॥ ततोऽस्मै भक्तितो दत्त्वा सक्तून् पुण्यं विधीयते । सुपात्रदानजं पुण्यं यतः स्यात्सागरोपमम् ॥ २६ ॥ ततः सद्भावसंशुद्धः सक्तुभिः शीतलैस्त्वया । प्रणम्य बहुमानेन पारितः स मुनीश्वरः ॥ २७ ॥ सत्पात्रदानपुण्येन भवानासीत्ततो नृपः । प्रतिष्ठानपुरखामी नाम्ना श्रीशातवाहनः ॥ २८ ॥ अवधिज्ञानतो ज्ञात्वा ततस्ते प्राग्भवस्थितिम् । पिता मीनमधिष्ठाय हास्यं नागाधिपो व्यधात् ॥ २९ ॥ गुरुं नत्वा नृपः स्माह कथं मेऽसौ विभो । पिता । सूरिर्जगाद राजेन्द्र ! तत्स्वरूपं श्रृणु खयम् ॥ ३० ॥
सप्तमः
परिच्छेदः
॥ ४५ ॥