________________
AUSAMACROCCASS
धर्मः शर्मणे शश्वद् ?' इति प्रश्ने तया कृते।'सर्वजीवदयाशाली' साऽपि प्रत्युत्तरं व्यधात् ॥ २४ ॥'प्रशंसनीया का संपत्सताम्' ? एवं तयोदिते । सोऽप्याह स्म 'विवेकेन युता धर्मसुखावहा' ॥ २५॥ विस्मितानन्दितखान्ता नृपामात्यादयस्तदा । जगदुः सत्यमेवैतत् श्रीपालो नरभारती ॥ २६ ॥ श्रीदत्ताऽपि निजाभीष्टप्रश्नोत्तरविधानतः । भूपादीनां समक्षं श्रीपालं वो प्रमोदतः ॥ २७ ॥ ततोऽजनि तयोः प्रौढमहोत्सवपुरस्सरम् । क्रमेण पाणिग्रहणं खजनानन्ददायकम् ॥ २८ ॥ सप्तभौमे ततः सौधे स्थितोऽसौ प्रियया समम् । बुभुजे पञ्चधा भोगानभङ्गुरसुखनवान् ॥ २९ ॥ श्रीपालेनान्यदाऽधस्ताद्वाक्षस्थेन लीलया । अर्धचर्वितताम्बूलं क्षिप्तं वीक्ष्य वराङ्गना ॥३०॥ मुखमोटनकं कृत्वा काचित् प्रोवाच तं प्रति । लीलाकेलिरियं का ते सततोषितमोजिनः ॥३१॥ युग्मम् ॥ निशम्य वचनं तस्या मनखी चकितोऽधिकम् । जवात्तत्रागतः स्माह विनयी तां वराङ्गनाम् ॥ ३२ ॥ किमीशवचो मातस्त्वयोचे केन हेतुना। सद्योरसवती(जयतोऽहं श्रीमदग्रणीः॥ ३३॥ युग्मम् ॥ साऽऽचख्यौ तव मातैवोषितभुक्तिविचारणाम् । वक्ष्यत्यसौ यथा जातो भवानेवविधः सुतः॥ ३४॥ ततोऽसौ मातरं नत्वा जगादोषितभोजनः। अहमस्मि कथं मातः! साऽपि सप्रश्रयं जगौ ॥ ३५॥ सद्यो रसवतीभोजी किमेतत्त्वं प्रजल्पसि । विदग्धोऽपि | विमुग्धात्मा लगस्येवं जनोदिते ॥ ३६॥ विशेषज्ञस्ततो दध्यौ श्रुत्वाऽसौ जननीवचः । साभिप्रायमिदं वाक्यं तयोचेऽतीवविज्ञया ॥३७॥ जिज्ञासुस्तद्वचस्तत्त्वं विद्वत्सेवां सृजन्नसौ । एकं योगीश्वरं दृष्ट्वा ध्यानस्तिमितलोचनम्
SACSAMACAECRECRACK