SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ ॐॐॐॐॐ यथा सुवर्ण खयमेव शुद्धं शुद्धिं परेषां कुरुते खयोगात् । धर्मस्तथा सर्वजगद्विशुद्धः पापापनोदाद्विमलं विधत्ते ॥ १॥ यतःक्षान्त्या शुध्यन्ति विद्वांसो दानेनाकार्यकारिणः । प्रच्छन्नपापा जापेन तपसा सर्व एव हि ॥१॥ अद्भिर्गात्राणि शुध्यन्ति मनः सत्येन शुध्यति । विद्यातपोभ्यां भूतात्मा बुद्धिः शास्त्रेण शुध्यति ॥२॥ यः करोति त्रिधा शुझा धर्म सर्वज्ञदर्शितम् । स श्रीपाल इव प्रौढां प्राप्नोति पदवीं यथा ॥१॥ प्रजापालमहीपालः पुराऽस्ति श्रीपुरे पुरे । मतिसागरनामासीत्तन्मत्री सान्वयाभिधः ॥२॥ सप्तपुत्रोपरि स्फारप्रभाप्राग्भारभासुरा । श्रीदेव्याराधनाजाता श्रीदत्ताऽऽसीत्तदङ्गजा ॥३॥ सा प्राप्तयौवना जज्ञे कलासु सकलाखपि । कुशला विशेषात्प्रश्नोत्तरानुत्तरकौशला ॥४॥ यो मे प्रश्नोत्तरं दास्यत्यस्मै विद्वज्जनाग्रणी। वरो भावी मम श्रीमान् प्रतिज्ञामकृतेति सा ॥ ५॥ तस्मिन्नेव पुरे पौरप्रवरः पुण्यकर्मभिः । पुण्यपालोऽभवत् ओष्ठी कृपालुः सर्वदेहिषु ॥ ६ ॥ श्रीपालोऽभूत्सुतस्तस्य भूपालोपमविक्रमः । पुंभारतीति बिरुदं विभ्रद्विद्वत्तयाऽवनौ ॥ ७॥ यौवने रममाणं तं पासवयोभिः समन्वितम् । दृष्ट्वा दृष्ट्युत्सवाकारं मतिसागरमन्त्रिराट् ॥ ८॥ रूपसौभाग्यचातुर्यप्रमुखैः सद्गुणैरयम् ।। मत्कन्याया वरो योग्य इति दध्यौ खयं हृदि ॥९॥ श्रुत्वा पाणिग्रहोदन्तं श्रीदत्ता जनकं जगौ । तं वरिष्याम्यहं तात! यो मत्प्रश्नोत्तरप्रदम् ॥१०॥ मन्त्री तत्पुण्यपालस्य खरूपं श्रेष्टिनो जगौ। सोऽपि श्रीपाल CAPACIRCRACK
SR No.600298
Book TitleDharmpariksha
Original Sutra AuthorN/A
AuthorJinmandangiri, Chaturvijay
PublisherJinshasan Aradhana Trust
Publication Year2002
Total Pages148
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy