________________
=
=
॥२॥
=
॥४॥
=
अथ त्रयोदशः परिच्छेदः अथ चंद्रमती कन्या जातेऽपि तनये कथम् । कथं न जायते माता मदीयाहो ! निगद्यताम् एवं निरुत्तरीकृत्य व्योमगोऽसौ विपश्चितः । तमभ्यधात् वने गत्वा विमुच्य तापसा कृतिम् अहो लोके पुराणानि विरुद्धानि मिथः सखे । विचारयेन कोऽपीह मिथ्यात्वव्याप्तमानसः अन्तर्वत्नी कथं वामा वामास्पर्शेन जायते । गोः संगेन ने गौर्दश क्वापि गभवती मया नारीणां जायतेऽपत्यं फलस्यालिगने कुतः । पुरुषस्पर्शतो वल्ल्यो न फलन्ति कदाचन दुर्दरी मानुषी सूते केनेदं हि निगद्यते । न कोद्रवान्मया दृष्टा जायमानाः सुशालयः वीर्यभक्षणमात्रेण यद्यपत्वं प्रजायते । कि कार्य कान्तसंगेन तदाऽपत्याय योषिताम शुकस्याशनमात्रेण जायन्ते तनया यदि । बीजसंगममात्रेण शस्यं दत्ते तदा क्षितिः आघाते पंकजे गर्भः सवी जायते यदि । अममित्रे तदा पात्रे केन तृप्तिनिवार्यते कन्यां विज्ञाय मंडूकी धत्ते पद्मदले कथम् । मेकानामीशं ज्ञानं कदा केनोपलम्पते धर्मार्काग्नियमेन्द्राणां तनुजाः संगतोऽभवन् । सत्याः कुन्त्या हृदि इस्य कस्येदं प्रतिभासते सुराणां यदि नारीभिः संगमः सह जायते । सुरीमिः सह मानां तदा नो दृश्यते कयम्
॥८॥
॥१२॥