________________
॥६४॥
द्वादशमः परिच्छेदः
धर्मपरीक्षा कथानकम् ॥४३॥
बमाण खेचरः पूर्व सुभद्रायास्तमो द्विषन् । चक्रव्यूहस्य रचनां कथयामास युक्तितः मातुः कथं तदाऽश्रावि तुंदस्थेनाभिमन्युना । मया कर्थ द्विजन्मानस्तापसानां वचो न किम् परासरेण कोपीने घोते ससि साधुना । पीतो वीर्यरसोऽभ्येत्य दर्या जीवनस्थया तद्रेता पानतो गर्ने संजाते सति दर्दुरी । सम्पूर्णे समयेऽस्त सुन्दर सा कनी वराम् कुजातेरस्मदीयाया नोचिता वरसंवरा । इति ज्ञात्वा तया क्षिप्ता विशाले नलिनीदले तेनर्षिणान्यदा दृष्टा सार्या कासारमीयुषा । स्नेहतः स्वीकृता ज्ञात्वा स्वरेतः सारसंभवा नानाविद्यैरुपायैः साऽनेन प्रपाल्य वर्द्धिता । प्रवर्तते निसर्गेण सकलोऽपत्यपालने तत् शुक्रकश्मलं तस्य कोपीनं राकया तया । कदाचिद्विहितं स्नान तारुण्ये परिधाय च तस्या जातं ततो गर्भ विज्ञाय निजवीजजम् । ऋषिस्तं स्तंभयामास कनीदूषणभीतितः सप्तवर्षसहस्राणि गर्भस्तेन स्थिरीकृतः । अतिष्ठत पिठरे तस्याः कुर्वाणो यातनां पराम् दशाननेन सा कन्या परिणीता महौजसा । दत्ता तपस्विनाऽस्त सुतमिन्द्रजितं ततः जाते जितामित्रजाते पूर्वमिन्द्रजिति स्फुटम् । अभवद्रावणः पश्चात् ख्यातो मंदोदरीपतिः सप्तवर्षसहस्राणि कथं स इन्द्रजित स्थितः । जननीजठरे नाहं वर्षद्वादशकं कथम् जजल्पुर्माहनाः सर्वे तव तथ्यमिदं वचः । परमुद्भूतमात्रेण तपोग्राहि त्वया कथम्
॥ ६७॥ ॥ ६८॥ ॥ ६९॥ ॥ ७० ॥ ॥ ७१ ॥ ॥७२॥ ॥७३ ॥ ॥ ७४॥ ॥ ७५ ॥ ॥७६॥ ॥ ७७॥
रररर..
४३॥