SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ मुखीभूतोऽपि देवानां विष्टपोदरवर्त्तिना । पाषाणवृक्षवर्गेषु येन वह्निर्निवेशितः स स्मरो निर्जितोऽनेन सर्वेषामपि दुर्जयः । सिद्धिः प्रसादतः तस्य जायते सर्वदर्शिनाम् द्विजानां पुरतः कृत्वेदृशं धर्मविचारणम् । आगत्योपवनं मित्रमजल्पत व्योमगांगजः श्रुतो मित्र ! त्वया देवविशेषः परसम्मतः । विचारणाऽसहस्त्याजो विबुधैः सिद्धबुद्धिभिः रागद्वेषविनिर्मुक्तः केवलालोकनिर्मलः । स देवो निपुणैः ख्यातः शत्रौ मित्रे समेक्षणः विवाहे स्पर्शतो ब्रह्मा पार्वत्या: पार्वतीपतिः । हहा पुरोहितीभूय क्षुभितो दर्पकार्दितः नर्तनंप्रक्रमे रुद्रस्तापसीक्षोभणोद्यतः । लिङ्गप्रच्छेदपीडां नो विषेहे दुःसहां किमु अहिल्यया सुराधीशश्छायया यमपात्रकौ । कुन्त्या तीक्ष्णरुचिनतो लघिमानं घरातले एवमेकोsपि देवोऽत्र निर्दोषो नास्ति विष्टय । परायचीकृतो हत्वा न यो मकरकेतुना इत्यादिवचनैस्तत् पुराणप्रतिपादितैः । वाडवैः विप्रतार्यन्ते लोकाः स्तोकघियान्धिताः परं चित्रकरं मित्र ! दर्शयाम्यधुना तव । क्षुल्लरूपं निगर्धेति सार्धं जग्राह तेन सः प्रतीचीगोपुरे गत्वा लघुनिर्ग्रन्थरूपिणी । भूयः पुष्पपुरं दक्षौ प्रविष्टौ तौ खगोत्तमौ गत्वाऽथ वादशालायां मेरीमाताडय खेचरः । दर्भाग्रप्रतिभा शिष्टो निविष्टः स्वर्णविष्टरे श्रुत्वा मेरीस्वनं सर्वे निर्गता माहना बहिः । विवादनिरता मेघनिनदं शरभा यथा 11 20 11 ॥ २१ ॥ ॥ २२ ॥ ॥ २३ ॥ ॥ २४ ॥ ॥ २५ ॥ ॥ २६ ॥ ॥ २७ ॥ ॥ २८ ॥ ॥ २९ ॥ ॥ ३० ॥ ॥ ३१ ॥ ॥ ३२ ॥ ॥ ३३ ॥
SR No.600297
Book TitleDharmpariksha Kathanakam
Original Sutra AuthorN/A
AuthorSaubhagyasagar Gani, Rangvimal Gani
PublisherMuktivimal Jain Granthmala
Publication Year1942
Total Pages132
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy