________________
धर्मपरीक्षा कथानकम्
सप्तमः परिच्छेदा
क्रोधोबुरे भुजङ्गीव सर्वस्यासुखदायिक । अमतां कलहासत्के शोणनेत्रे ममाप्रिये (युग्मन) ॥४५॥ राक्षसीम्यामिवाभीक्ष्णं ताभ्यां भृशं विमेम्यहम् । स नास्ति विष्टपे प्रायो योषितो यो न शंकते ॥४६॥ सार्ध मे क्रीडतस्ताम्यां कियत्काले गते सति । अन्यदाऽहं त्रियामायां शय्यायां शयितः सुखम् ॥४७॥ द्वे समागत्य भार्ये ते सुप्ते पार्श्वद्वये तदा । बाहुद्विकं तयोः कंठे मया मुक्तं महामिया ॥४८॥ भालोपरि ममाऽमोचि ताभ्यांदीपः स्वकेलये । कामिनी हि न जानाति भवन्तीं विपदं सदा ॥४९॥ तदा दैवान्मूषकेन नयनोपरि वर्तिका । ज्वलनी पातिता मेव नीयमाना दुरात्मना ॥५०॥ विचितयितुमारब्धं मयाऽथ व्याकुलात्मना । जागरित्वा दह्यमाने सर्वांगोत्तमलोचने ॥५१॥ दक्षिणं पाणिमाकृष्य यदि विध्यापयामि ताम् । तदा कुप्यति मे भार्या दक्षिणाऽथ परा परम् ॥५२॥ ततः कान्तामयत्रस्तः स्थितो यावदहं स्थिरः। स्फुटित्वा लोचनं तावद्वाम काणं ममाजनि ॥५३॥ शशाम स्फुटिते नेत्र ज्वलित्वा ज्वलनः स्वयम् । न व्यधायि मया भीत्योपाय: कथन शांतये ॥५४॥ ममेह सदृशो मूढो विद्यते यदि कथ्यताम् । दह्यमानं निजं नेत्रं य खीत्रस्त उपेक्ष्यते निजमूर्खत्वमित्युक्त्वा तमिन् मुखें स्थिते सति । लोकाग्रे द्वितीयोऽवोचन्मन्मूढत्वं निशम्यताम् दयिते द्वे ममामतां व्याघीव प्रतिषोदुरे । रासभीव महारावे पापाशये गतत्रपे ॥५७॥ प्रेयसी परमां प्रीति वहन्ती चरणं मम । एका झालंबते वाम द्वितीया दक्षिणं तथा ॥ ५८॥
॥ २५ ॥