________________
श्री धर्मपरीक्षा
कथानकम् 11 86 11
मद्दुः कृत्यं सहस्वेश तवास्ति सफलं धनम् । भवन्ति विबुधाः विश्वे प्रायो गंभीरमानसाः यतः - महिउ सुरेहि पीउ अगत्थि वाचाशिना कयानेहि संतत्तो ।
दहरयह मुयेण वद्धो रयणनिही तहवि गंभीरो asarane काप्यन्या नवा त्वमसि यज्ञका । सदृग्रूपाः घनाः सन्ति वसुमत्यां मृगीदृशः गदित्वेति तया मूढः स विप्रो निर्विचारकः । धूतैराकुलितं ग्रामं मन्यमानः स्वमानसे एवं विवेकविकलो मूढों निवेदितो मया । स्वाभिप्रायरतो विप्रा ! व्युद्ग्राही कथ्यतेऽधुना अथाऽऽसीत्सुस्थितग्रामे जितशत्रुर्नराधिपः । जात्यन्धः पापतस्तस्य जात्यन्धो नाम नंदनः हारकुण्डल केयूरादीनि सभूषणानि सः । मार्गणेभ्यस्तनुस्थानि प्रयच्छति दिने दिने अन्यदा वीक्ष्य तद्दानं घीसखोऽवग् नराधिपम् । कुमारेण विभो ! सर्वो दवा कोशो विनाशितः ततो भूपोऽमणमास्य दीयते यदि भूषणम् । तदा स्यात् हृदये खेदः किं करोमि महामते ! भ्रूपं मन्त्री ततोऽवोचदुपायं विदधाम्यहम् राज्ञोक्तं कुरु सद्बुद्धे ! मया स्वं न निवार्यते दवाsयो भूषणं मन्त्री सोऽयो दण्डं समर्प्य च समस्त जनघाताय जगादेति कुमारकम् भवद्राज्यक्रमायातं भूषण गत दूषणम् । दातव्यं वार्थिनः शर्मरमाकरमिदं ननु इति ब्रूयादिद यो यस्ताडयेस्त्वं वराङ्गके । अयोदण्डेन मा कार्षीः कुमार ! करुणां क्वचित्
।
।
॥ ६९ ॥
।। ७० ।।
॥ ७१ ॥
॥ ७२ ॥
॥ ७३ ॥
॥ ७४ ॥
।। ७५ ।।
।। ७६ ।।
॥ ७७ ॥
11 02 11
॥ ७९ ॥
॥ ८० ॥
॥। ८१ ।।
पञ्चमः
परिच्छेदः
॥ १८ ॥