________________
श्री धर्मपरीक्षा कथानकम् ॥ १७ ॥
लोका विलोक्य बाह्यांतर्मारद्वाजकदंबकम् । निजं निजं गृहं जग्मुः विषण्णीभूतमानसाः प्रपंचो बने कोsपि नास्ति रामाभिरन्वहम् । निसर्गाद्दगयुक्ताभिः स्थाने यो न विबुध्यते लोकप्रेषित लेखेन तन्मत्वाऽऽगत्य वाडवः । दग्धं निरीक्ष्य गेहं च विललाप जडात्मकः विदधानो मदादेशं विधेयः शास्त्रपारगः । ब्रह्मचर्य क्रिया शुद्धः कुलीनो लोकवल्लभः अक्षुद्रः सत्वसंपन्नो निःस्पृहः सत्यभाषणः । निर्दयेनाग्निना दग्धो यज्ञोऽमंदमतिः कथम् वर्तमाना मदाज्ञायां गृहकृत्येषु तत्परा । पवित्रा त्वं कथं यझे ! दग्धाऽनलेन कोमला वृहत्रपा भर्तुर्भवता शालिशीलगुणोज्ज्वला । त्वत्समा प्रेयसी सुभ्रु ! भविष्यति कदापि नो स्पर्शनं दर्शनं दृष्टया हसनं जल्पनं मम । दूरिकृतं कृतान्तेन सर्व तन्वि ! त्वया सममू त्वया मम विहीनस्य चन्द्रास्ये ! का सुखासिका । निर्वृतिश्चक्रवाकस्य चक्रवाकी मृते कुतः एवमेकेन शोकार्त्तः सोऽभणि ब्रह्मचारिणा । प्रयोजने व्यतिक्रान्ते मुधा रोदिष्यसीति किम् संयुज्यन्ते वियुज्यन्ते कर्मणा प्राणिराशयः । प्रेरिता नित्यगतिना पत्रपुञ्जा इव ध्रुवम् जीवितं विकृतिर्विश्वे प्रकृतिर्मृतिरंगिनाम् । तिष्ठत्यपि क्षणं चेदुवै स्वसन सल्लाभवानसौ रसामिषमेदोऽस्थिमज्जावीर्यादिभाजने । कांतं कि कामिनीकाये सूक्ष्मासुग्घरयाssवृते लोलानिष्ठीवन श्लेष्मदंशकीटसमाकुलम् | तदास्यं ग्लौसमं दक्षैः कथं हा व्युपमीयते
॥ ४१ ॥
॥ ४२ ॥
॥ ४३ ॥
॥ ४४ ॥
॥ ४५ ॥
॥ ४६ ॥ ॥ ४७ ॥
॥ ४८ ॥
॥ ४९ ॥
।। ५० ।।
॥ ५१ ॥
॥ ५२ ॥
॥ ५३ ॥
॥ ५४ ॥
पञ्चमः
परिच्छेदः
॥ १७ ॥