________________
॥१३॥ ॥१४॥
परिच्छेदः
धर्मपरीक्षा कथानकम्
अबलीकुरुते लोकानतो निगद्यतेऽवला । विवर्णयति या विश्वं वर्णिनी तेन वै मता अत उक्ता कुमारीयं धरी मारयते यतः । यतोऽमुष्यां प्रमाद्यन्ति रागिणः प्रमदा तता दूषयति यतो विश्वं बुधैर्योषा मता ततः । इत्यादिसकलं नाम वामानां क्लेशकारणम् तटिनीनां भुजङ्गीनां व्याघीणां वामचक्षुषाम् । उत्तमा जातु कुर्वन्ति न विश्वासं हितार्थिन: पुण्डरीकं महासत्रं विधातुं किल सोज्यदा । दवा मूल्यं समाहूतो मथुरायां परैर्द्विजैः रक्षन्ती स्वगृहं भद्रे ! शयीष्ठा अन्तरे सुखम् । शाययेर्यज्ञकद्वारे शिक्षा दवेति सोऽगमत गत्वा स्वरुच्ये सा पापा चकमे बटुकं विटम् । पुंश्चलीनां महाराज्यं शून्ये गेहे हि जायते स्पर्शनैर्दर्शनैः कामैर्गुह्यप्रकाशनैमिथः । तयोः प्रववृधे प्रीतिः घृतसेकैरिवानला अबलामिः सकलाभिः सर्वस्य हियते मनः । स्वैरिण्या स्वैरिणः किं न तरुण्णा तरुणस्य च तां यज्ञां बुभुजे सोऽपि पीनवक्षोजपीडितः । विजने प्रमदामाप्य विराम कस्य नो भवेत् ? यज्ञयाऽऽलिङ्गतो गाढं सद्विलासप्रधानया । मुदोऽमन्यत यज्ञोऽसौ पद्ययेव नरायणः मृगदृष्टया स्पृश्यमानो नरः क्षिप्रं विलीयते । शिखया दहनस्यैव सर्पिःकुम्भः स्वभावतः इन्द्राद्या अपि क्षुम्यन्त्येकान्ते प्राप्य वराङ्गनाः । मन्मथव्यथितस्वान्तः किं पुनर्बटुको विटा तयोरिति महाप्रेमयंत्रयंत्रितचेतसोः । चतुर्मासी व्यतीयाय रतिपाथोधिमप्रयोः
BXXXXXXXXX
॥१७॥ ॥१८॥ ॥१९॥ ॥२०॥ ॥ २१ ॥ ॥२२॥ ॥ २३॥ ॥२४॥ ॥२५॥