SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ ॥ ३८ ॥ दुःखानां सेवधिर्नारी दकानामिव निम्नगा । वसतिः कैतवानां च गराणां सर्पिणी यथा विमुञ्चति निजाधीनं दुःसाध्ये रच्यतेऽगना । भीषणं कुरुते धैर्य लज्जते न बिभेति न स्नेहप्रपूर्णा परितापकी निर्मेयकालुष्यवती स्वभावात् । यादीपलेखेव वशा विलोला लब्धप्रसारोरुभयं ददाति भोः प्रभो! किंबहूक्तेन सर्व सम्यग् विबुध्यताम् । वैरिणी धाग्नि प्रत्यक्षा कुरङ्गी तव तिष्ठति पापिष्ठया कुरङ्गया ते विटेभ्यः सकलं धनम् । दत्वा विनाशितं साधोः दुःप्रापः संयमो यथा निःशंकं हरते स्वामिन् द्रविणं तव या प्रिया । हरती जीवितं साऽपि दुष्टा केन निवार्यते यो विश्वसिति मूढात्मा स्त्रीणां निर्दयचेतसाम् । क्षुधादिवशरीराणां व्यालीनां विश्वसित्यसौ सर्पिणी शाकिनी रुद्रा राक्षसी कुलटा गृहे । वसती तब सा दुष्टा प्रदत्तेऽसुविपर्ययम् नो तस्या हितभाषिण्याः भाषितं रक्षितं हितम् । गत्वा निवेदयामास कुरङ्गन्याः सकलं सकः ततस्तयोक्तमभितमीjया दूणानि मे । सद्गुणैर्दह्यमाना साऽऽविक्रशेति सकूटकम् दह्यमानाः सुतीवेण नीचाः परयशोऽग्निना । अशक्तास्तत्पदं गन्तुं ततो निन्दा प्रचक्रिरे सापि निःकाश्यतां स्वामिन् सतनूजा पृथग् गृहात् ।। दुष्टावस्था दुराचारा दुर्मुखा दोषदायिनी ॥४०॥ ॥४१॥ ॥४२॥ ॥४३॥ ॥४४॥ ॥४५॥ ॥४६॥ ॥४७॥ ॥४८॥ KXXXCX ॥४९॥
SR No.600297
Book TitleDharmpariksha Kathanakam
Original Sutra AuthorN/A
AuthorSaubhagyasagar Gani, Rangvimal Gani
PublisherMuktivimal Jain Granthmala
Publication Year1942
Total Pages132
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy