________________
अथागत्य पुरोपान्तं विहितोर्वीश कार्यकः । स्वालये विजयोत्कोऽसौ प्रजिघाय सुसेवकम् तामुपेत्य स बभाण समेतो बंधुरस्तव धवो विजयाख्यः ।
वल्नं कुरु विचित्ररसाढ्यं प्रेषितो कथयितुं तव वार्ताम्
तस्य वाक्यमवगत्य भुजिष्यं भाषते स्म परुषं निजचिते ।
याहि वृद्धयुवतीं कथयैतत् नो सतां क्रमविलंघनमर्हम्
सैत्य तेन सह सर्वमुदन्तं जल्पति स्म वरसुन्दरि ! सेत्का ।
आगतः शुमरसाङ्कुरजग्धि मोक्ष्यतेऽद्य तव सद्मनि नूनम्
सा जगाद रसलाऽथ कुरङ्गी भाजनं हि विदधामि विचित्रम् ।
केवलं स रमणो मम गेहे मोक्ष्यते न तव रूपविलीनः
सा पुनः छलवतीत्यवदत्तां मन्यते स यदि मां ध्रुवमिष्टाम् ।
वाक्यतो मम तदा तव गेहे मोक्ष्यते सुनिवसं कुरु शीघ्रम्
तदीयमेतद्वचनं निशम्य रराघ भोज्यं विविधं विमुग्धा ।
. सुसाधवः स्वस्य समं गुणौघैः जगत्समस्तं गणयन्ति नूनम्
1107 11
।। ७९ ।।
11 20 11
1168 11
॥ ८२ ॥
॥ ८३ ॥
॥ ८४ ॥