________________
सुभगाकृतिमाप्यासौ तां भार्यौ चारुपोवनाम् । पौलेग्न्याश्लिष्टदेवेश-मिवात्मानममन्यत मण्डलस्वामिनाऽऽहूय भणितो विजयोऽन्यदा । कृत्वोचितां त्वं सामग्रीं व्रज शीघ्रं वरूथिनीम् स्वामिमहं करोमीति प्रोच्य स्वालयमाययौ । समालिंग्य प्रियां गाढं स प्रोचे विजने स्थिताम्र कुरङ्गि ! स्वं गृहे तिष्ठ सेनायां गम्यते मया । निजेशानां हि नादेशश्श्रोल्लंघ्यः सुखमीप्सुभिः पृतना मम संपना स्वप्रभोस्तत्र वल्लभे । अवश्यं गमनं भावि कुप्यति प्रभुरन्यथा निशम्येति वचस्तस्य जगाद युवती तदा । सार्धं त्वया समेतव्यं विरहासहया मया सुखेन शक्यते सोढुं स्फुरघ्घूमध्वजो मया । विरहो न पुनः स्वामिन वियोगजनितो भृशम् स्थितामेकाकिनीं मारो मां निशुंभति सुन्दर । मृगीमिव मृगाधीशो विपिने शरणौञ्झिताम् यदि यास्यसि याहि त्वं मार्गे भवतु ते शिवम् । गच्छतो जीवितव्यस्य ममापि प्रेतपालयम् विजयाख्यस्ततोऽवादीत् मेति वादीः शुभानने । धाम्नि तिष्ठ स्थिरीभूय विप्रं मा कुरु मद्गती परदाररतो राजा लाति त्वामीक्षितां यतः । अतो मुक्त्वा गृहे कान्ते! स्कन्धावारं व्रजाम्यहम् सुरूपां त्वां निरीक्ष्या सौ नृपो गृह्णाति निश्चितम् । अनन्यरूपसामान्यं स्त्रीरत्नं कस्त्यजेत् पुमान् प्रबोध्येति प्रियां त्यक्त्वा सदने घनपूरिते । आदेशजनकः सोऽपि प्रययौ सबलं बलम् सरागस्य स्थितिरियं यत्प्राप्य कामितं परम् । विश्वस्येमहि कस्यापि विरहे च मुमूर्षति
॥ ५४ ॥
।। ५५ ।।
॥ ५६ ॥
॥ ५७ ॥
॥ ५८ ॥
॥ ५९ ॥
॥ ६० ॥
॥ ६१ ॥
॥
६२ ॥
॥
६३ ॥
॥ ६४ ॥
॥ ६५ ॥
॥ ६६ ॥ ॥ ६७ ॥