________________
5.68*KAKKKKAKKAX...EKX8XKX
ताम्रपात्रं निजं क्षिप्त्वा तीरे कर्तुं स मजनम् । तस्योपरि चकारोचं वालुकापुञ्जमुर्जितम् तं निरीक्ष्य जनैरन्यैस्तत्रायातैषार्थिभिः । परमार्थमजानानैः परितश्चक्रिरे तथा स मन्जनं विधायेत्य तत्र पात्रं च पश्यति । तावत्पुञ्जोत्करे स्थानं स्वकृतं नापि बुध्यते पुलिने सर्वतो वीक्ष्य वालुकापुञ्जमूर्जितम् । विज्ञाय जनमूर्खत्वमिमं श्लोकं पपाठ सः गतानुगतिको लोको न लोकः पारमार्थिकः । पश्य ब्राह्मणजीवेन हारितं ताम्रमाजनम् मिथ्यात्वध्वान्तसकीर्णे लोकेऽस्मिन निर्विचारके। एकः शतसहस्राणामन्तराले विचारक: इत्थं मत्वा पुराणानि लौकिकानि विशारदैः । प्रमाणानि न कार्याणि वचनानीव चैरिणाम् पुराणं दर्शयाग्यन्यल्लौकिकं ते स्फुरन्मते । इत्युदीर्य स जग्राह रोहितांऽशुकरूपताम् द्वारेण पञ्चमेनासौ प्रविश्य पत्तनं ततः । स्वर्णासने समासीनो घंटामाताड्य पाणिना पूर्ववन्मिलिते विप्रगणे सोऽवग्न वेम्यहम् । किञ्चिच्च क्रीडया घंटामाताड्य विष्टरे स्थितः जगुस्ते तव संबंधमस्मदने निवेदय । स प्राह सूचयाम्येव विमेमि भवतां पुरः ते जगुस्तं त्वमाचक्ष मा भैषीर्भद्र ! सर्वथा । वयं मनीषिणः सर्वे न्यायवासितमानसाः ततो रक्तांशुकोऽवादीत् यद्येवं श्रूयतां तदा । श्रेष्ठिनस्तनयावावां. तापसानामुपासको एकदा वा यष्टपाणीः रक्षणाय नियोजितौ । शोषणाय स्ववासांसि क्षितौ निक्षिप्य साधुभिः
॥२७॥ ॥ २८॥ ॥२९॥ ॥३०॥ ॥३१॥ ॥ ३२॥ ॥३३॥ ॥ ३४॥
॥ ३७॥ ॥३८॥ ॥ ३९॥ ॥४०॥