SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्व प्रथम: प्रस्ताव: कौमुदी KXXXXXXXXXXXXXXXXXXXXXXXXX ततो भव्योपकाराय सम्यक्त्वव्यक्तिहेतवे । सम्यक्त्वकौमुदीमेतां वक्ष्ये ग्रन्थानुसारतः ॥ १६ ॥ तथा हिजम्बूपपदभृद्द्वीपो निष्प्रतीपोऽस्ति संपदाम् । सूर्याचन्द्रमसौ द्वौ द्वौ यस्योद्योताय जाग्रतः ॥ १७ ॥ तीर्थकृज्जन्मभूमित्वात्ख्यातं तीर्थतया सताम् । तत्रास्ति भरतक्षेत्रं सत्रं सुत्रामपूःश्रियः॥ १८ ॥ देशः स्वर्गसमोद्देशस्तस्मिन् गौडोऽस्ति विश्रुतः । बिभ्रदापीडता पृथ्व्या विद्याविक्रीडयाऽद्भुतः ॥ १९ ॥ नगरं नगरङ्कत्वकारिमन्दिरमण्डितम् । तत्रासीत्स्वस्तिकाकारं पृथिव्याः पाटलीपुरम् ॥ २०॥ यस्य मध्ये विराजन्ते जिनप्रासादपङ्क्तयः । बहिर्गङ्गोमयस्तुङ्गाः परमोदकसंपदः ॥२१॥ एतत्पुण्यं पुरं यस्य स्थानेऽभूद्धर्मसाधनम् । स पाडलतरोः प्राणी कथं नैकावतारकः १ ॥ २२ ॥ तत्र वित्रासितारातिः संप्रतिजेंगतीपतिः। त्रिखण्डभरताभोगमण्डिताखण्डशासनः ॥२३॥ कृतज्ञेष्वग्रणीजैनधर्माम्भोनिधिचन्द्रमाः। आसीहासीकृतस्वर्गनायको निजसंपदा ॥ २४ ॥ युग्मम् ॥ ऐश्वर्य भरतार्द्धस्य विश्वविस्मयकारकम् । अव्यक्त्वं पालितायेन लेभे सामायिकादहो ! ॥२५॥ यतःकिं भणिमो महिमाए जिणिंदधम्मे अवत्तसामइए । भरहडवई दुमओ जाओ संपइनरिंदुत्ति ॥ १॥ सोऽन्यदा विदधद्राज्यं जगामोजयिनी पुरीम् । स्वदेशे हि नृपाः क्वापि कदाचित्कुर्वते स्थितिम् ॥२६॥ जीवन्तस्वामिप्रतिमारथयात्रामहोत्सवम् । कुर्वन्नस्ति क्षणे तस्मिन् श्रीसङ्घोऽनघभक्तिभृत् ॥ २७ ॥ विम्बं तत्र जिनेन्द्रस्य भद्रपीठोपरि स्थितम् । सर्वालंकृतिसंशोभि नानापूजाविराजितम् ॥२८॥ RRRREKXXXXXXXXXXXXXXXXXXXX ॥३॥
SR No.600296
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorJinharsh Gani, Vijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages220
LanguagePrakrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy