SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ सप्तमः सम्यक्त्वकौमुदी प्रस्ताव: ॥२१२॥ XXXXXXXXXXXXXXXXXXXXXXXX शश्वद्धर्मोद्यमो यस्य सूक्ष्मबोधविवर्जितः । परा च तत्त्वशुश्रुषा तस्य दीपा भवेदसौ ॥ १३३ ॥ प्राणेभ्योऽपि गुरुधमः सत्यामस्यामसंशयम् । प्राणांस्त्यजति धर्मार्थ न धर्म प्राणसंकटे ॥ १३४ ॥ सम्यग्ज्ञानक्रियासारं रत्नज्योतिरिवामलम् । तत्त्वश्रद्धानमाम्नातं स्थिरायां निष्कषायकम् ॥ १३५ ।। सदनुष्ठानकृत्येषु स्वयं शक्त्या प्रवर्तते । असद्ग्राहविनिमुक्तो जन्तुरस्यां प्रकीर्तितः ॥ १३६ ॥ तारोद्योतोपमा तत्त्वश्रद्धा बह्वथदीपिनी । सम्यक्त्वाणुरसास्वादवती कान्ता दृगुच्यते ।। १३७ ॥ भास्वत्प्रकाशसंकाशा रुचिस्तत्त्वेषु निश्चला । निरस्तकुमतध्वान्ता प्रभादृष्टिरिहोदिता ॥ १३८॥ स्मृतेन्दूदयसंकाशा सम्यक्तत्त्वरुचिः परा । दृष्टिः सर्वात्मना शान्तकषायविषयोदया ॥ १३६ ॥ यतःतन्नियोगान्महात्माह कृतकृत्यो यथा भवेत् । यथाऽयं धर्मसंन्यासविनियोगान्महामुनिः॥१॥ द्वितीयापूर्वकरणे मुख्योऽयमुपजायते । केवलश्रीस्ततश्चास्य निःसपत्ना सदोदया ॥१४॥ सत्कृत्यानि करोत्येवं तद्विशुद्धिकृते कृती। यन्निमित्तस्य नेमल्याकार्य नेमल्यमाश्रयेत ॥ १४१ ॥ रम्याणि चैत्यानि जिनेश्वराणां बिम्बानि सद्वर्णमनोहराणि । पूजाप्रतिष्ठोत्सवतीर्थयात्रासुश्राद्धवात्सल्यगुणानुरागः ॥ १४२॥ सुसाधुभक्तिः कुमताद्विरक्तिः प्रभावना श्रीजिनशासने च । सदृष्टिनैर्मल्यकराण्यमूनि तीर्थङ्कराणामपि संपदे स्युः ॥ १४३ ॥ XXXXXXXXXXXXXXXXXXXXXXXXX ॥२१२॥
SR No.600296
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorJinharsh Gani, Vijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages220
LanguagePrakrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy