SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्व कौमुदी ॥२११ ।। ************************** तत्रापि धर्मं प्रवरं वदन्ति, न तं विना यद्भवतोऽर्थकामौ ॥ १ ॥ अमु वृद्ध शुद्धबुद्धिभिंगृहमेधिभिः । विज्ञाय पालनीयानि व्रतानि द्वादशापि हि ॥ १२५ ॥ यथा गुणानामौचित्यं तपसां च क्षमा यथा । तथा व्रतानां सर्वेषां सदृष्टिर्जीवितं परम् ॥ १२६ ॥ मित्रातारादिभिर्भ दरष्टधा दृष्टयः स्मृताः । यथावस्थितवस्तूनां सम्यग् बोधिनिबन्धनम् ॥ १२७ ॥ यतः - मित्रा १ तारा २ बला ३ दीप्रा ४ स्थिरा ५ कान्ता ६ प्रभा ७ परा ८ । नामानि तत्त्वदृष्टीनां लक्षणं च निबोधतः ॥ १ ॥ यथा प्रवृत्तकरणत्रान्ते स्वल्पमलस्थितौ । आसन्नग्रन्थिभेदस्य प्राणिनः प्रथमा भवेत् ॥ १२८ ॥ यतः - अपूर्वकरणाया सम्यक्त स्वरुचिप्रदा । अल्पव्याधेरिवान्नस्य रुचिचत्तत्त्ववस्तुषु ॥ १ ॥ अल्पाधि लोके द्विकारैर्न बाध्यते । चेष्टते चेष्टसिद्धयर्थं वृत्यैवायं तथा हि ते ॥ १२६ ॥ मनाक् सद्दर्शने स्पष्टे धर्मकार्योद्यमात्मनि । ताराख्या जायते दृष्टिस्तत्त्वजिज्ञासया श्रिता ॥ १३० ॥ यतः— तारायां तु मनाक् स्पष्टं नियमश्च तथाविधः । अनुद्वेगो हितारम्भे जिज्ञासा तत्त्वगोचरा ॥ १ ॥ परा सतत्त्वशुश्रूषा दृढं सद्दर्शनं यदा । अक्षेपश्च क्रियायोगे बला दृष्टिस्तदा भवेत् ॥ २ ॥ नास्माकं शेमुषी शुद्धा न भूयात् शास्त्रसङ्ग्रहः । मन्यतेऽस्यां स्थितो जीवः प्रमाणं जिनगीः परम् ॥ १३१ ॥ सुस्थिराणीन्द्रियाण्यस्यां चेष्टाः सर्वाः शमात्मिकाः । अनुत्सेकोऽखिले कार्ये गुणवत्सु महादरः ।। १३२ ॥ **** सप्तमः प्रस्तावः | ॥२११ ॥
SR No.600296
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorJinharsh Gani, Vijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages220
LanguagePrakrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy