SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्व कौमुदी ॥२०५॥ ********** चारित्रं पञ्चधा प्रोक्तं सर्वसावद्यवर्जनम् । आद्यं सामायिकं तत्र छेदोपस्थापनं तथा ॥ ४७ ॥ परिहारविशुद्धयाख्यं सूक्ष्मादिसंपरायकम् । यथाख्यातं त्वशेषस्य कर्मणः क्षयसंभवम् ॥ ४८ ॥ जिनोक्तमिति चारित्रं सर्वदुःखचयावहम् । चिन्तारत्नमिवानर्घ्यं भाग्ययोगादवाप्यते ॥ ४६ ॥ यतःकश्चिन्नृजन्मप्रासादे धर्मस्थपतिनिर्मिते । सद्गुणं विशदं दीक्षाध्वजं धन्योऽधिरोपयेत् ॥ १ ॥ यो जवेन भवाम्भोधि तितरीषति दुस्तरम् । तपस्यातरणी तेनाश्रयणीया गुणाश्चिता ॥ ५० ॥ सम्यक्त्वेन युतोऽप्यङ्गी विना चारित्रसम्पदम् । नाप्नोति केवलज्ञानं मुक्तिश्रीहस्तकोपमम् ॥ ५१ ॥ इत्यादिदेशनां पीत्वा गणभृन्मुखपङ्कजात् । स्माह कुन्दलता नत्वा श्रीगुरु गुरुभक्तिभृत् ॥ ५२ ॥ मृगीव विषयग्राममृगतृष्णा विमोहिता । भ्रामं भ्रामं भवारण्ये श्रान्ताऽस्मि भगवन्नहम् ॥ ५३ ॥ भवत्प्रसादतः प्राप्य व्रतपाथेयमद्भुतम् । समीहे लङ्घितु स्वामिन्नधुना भवकाननम् ॥ ५४ ॥ व्याजहार गणाधीशस्तां संवेगतरङ्गिताम् । भद्रे ! भद्रशतैः प्राप्यः संगतोऽयं मनोरथः ॥ ५५ ॥ यतः - चक्रवर्त्यपि साम्राज्यं त्यक्त्वा पादरजो यथा । सेवितुं संयमारामं यतते यतिसंयुतम् ॥ १ ॥ वाञ्छन्तोऽपि सुपर्वाणश्चारित्रं हि जिनोदितम् । लभन्ते न कदाप्यन्धा इव रत्नमहानिधिम् ॥ २॥ नैवोचितो वत्से ! प्रतिबन्धस्तदाप्तये । न हि पीयूषपानाय विवेकी मन्दति कचित् ॥ ५६ ॥ सप्तक्षेत्रयां ततः सर्वा कृतार्थीकृत्य सम्पदम् । निर्माय जिनगेहेषु विधिनाऽष्टाहिकोत्सवम् ॥ ५७ ॥ **** ****** सप्तमः प्रस्तावः ॥२०५॥
SR No.600296
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorJinharsh Gani, Vijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages220
LanguagePrakrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy