SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्व कौमुदी ॥१६७॥ ततः सर्वात्मना श्रेष्ठी पुण्यकृत्येषु यत्नवान् । अद्योतयज्जिनाधीशशासनं भानुमानिव ॥ १६४ ॥ जिनदत्तगुरुतत्र चारित्र श्रीपवित्रितः । अन्येद्युः समवासार्षीत् श्रेयोवल्लीसुधाम्बुदः ॥ १६५ ॥ भूपतिस्तत्र प्रणन्तुं तत्पदाम्बुजम् । वृषभश्रेष्ठिमुख्येन पुरीलोकेन संयुतः ॥ १६६ ॥ ववर्ष देशनानीरपूरैः शस्यभरावहैः । सिश्चन् पुण्यद्रुमारामं भव्यक्षेत्रेष्वसौ ततः ॥ १६७॥ यत्कल्याणकरोऽवतारसमयः स्वप्नानि जन्मोत्सवो यद्रत्नादिकवृष्टिरिन्द्ररचिता यद्रूपराज्यश्रियः । यद्दानं व्रतसंपदुज्ज्वलतरा यत्केवलश्रीर्जिने यद्रम्यातिशयस्तदेतदखिलं धर्मस्य विस्फूर्जितम् ॥ १६८ ॥ मूलं रुचिर्दानमुखाश्चतस्रः शाखा प्रशाखा नियमत्रतानि । पुष्पाणि संपत्प्रकराः फलं तु सिद्धिर्भवेद्धर्मसुरद्रुमस्य ॥ १६६ ॥ सद्दर्शनमयं मूलं हृदि यस्योल्लसेद्दृढम् । तस्यैव धर्मकल्पद्रुः परं न्यक्षात्फलप्रदः ॥ २०० ॥ सम्यक्त्वेन समं सर्वविरतिं यः श्रयेत्सुधीः । तरीत्वाऽसौ भवाम्भोधिं शीघ्र सिद्धिपदं व्रजेत् ॥ २०९ ॥ यतः - उत्कृष्टादेशविरतेः स्थानात्सर्वजघन्यकम् । स्थानं तु सर्वविरतेरनन्तगुणतोऽधिकम् ॥ १ ॥ आजन्माराधितादेशसंयमाद्यत्फलं भवेत् । अन्तर्मुहूर्त्तमात्रेण तत्पुनः सर्वसंयमात् ॥ २०२ ॥ यतः - एगदिवसंपि जीवो पव्वज्जमुवागओ अनन्नमणो । जइ नवि पावइ मुक्खं अवस्सवेमाणिओ होइ ॥ १ ॥ ********** **************** षष्ठः प्रस्तावः ॥१६७॥
SR No.600296
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorJinharsh Gani, Vijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages220
LanguagePrakrit
ClassificationManuscript
File Size14 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy