SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ XXXX सम्यक्त्वकौमुदी प्रथमः प्रस्ताव: KXXXXXXXXXXXXXXXXXXXXX सर्वज्ञशासनसमुन्नतिसावधानाः संवेगरगसुभगाश्चतुराशयाश्च । ते प्राप्य पुण्यवशतः शिवसौख्यबीजं सम्यक्त्वमुत्तमतमाः खलु पालयन्ति ॥ ७८ ॥ युग्मम् ॥ योऽतीवशुद्धपरिणामविविक्तचेताः शङ्कादिदोषरहितो विषयेष्वसक्तः। सत्यं तदेव मनुते खलु यजिनेन्द्रीतं भवेदनुपमो हृदि तस्य बोधिः ॥ ७९ ॥ अत्रान्तरे नरेशः श्रीसंप्रतिः कृतिनां वरः । श्रीगुरून मुकुलीकृत्य कराविति व्यजिज्ञपत् ॥८॥ सुरासुरगणाक्षोभ्यं श्लाघ्यं श्लाघ्यस्थितेरपि । केन पुण्यवता पूर्व सम्यक्त्वं पालितं प्रभो ! ॥ ८१॥ सम्यक्त्वपालनात्कस्य विश्वविश्वातिशायिनी। अभवच्च फलप्राप्तिर्लोकद्वयकृतोदया ॥ ८२॥ युग्मम् ॥ इत्याकण्यं नरेन्द्रस्य वाचं वाचंयमेश्वराः । क्षीराश्रवादिलब्धीनां निधयोऽभिदधुस्तदा ॥ ८३॥ सद्दर्शनमनासाद्य राजन् ! मुक्ति शरीरिणः । न गता न गमिष्यन्ति न च गच्छन्ति केचन ।। ८४ ॥ विरतेः स्खलितः प्राणी कदाचिन्मुक्तिभाग भवेत् । न पुनदर्शनाद्धृष्टः संयम पालयन्नपि ॥ ८५॥ यतःभट्टेण चरित्ताओ सुडुकरं दसणं गहेअव्वं । सिझंति चरणरहिआ दंसणरहिआ न सिझंति ॥१॥ याः काश्चित्सम्पदः श्लाघ्या यत्किश्चित्पदमद्भुतम् । आसादयन्त्यमी जीवास्तत्सम्यक्त्वभवं फलम् ॥८६॥ अर्हद्दासगृहस्थस्य तथापि शृणु भूपते ! । सदर्शनफलस्पष्टं दृष्टान्तं विष्टपाद्भुतम् ॥ ८७ ॥ तथा हिअस्त्यत्र भरतक्षेत्रे देशः स्वर्गनिवेशवत् । मगधाख्यो लसवश्रीदः सुमनोनन्दनस्थितिः ॥ ८८॥ । XXXXXXXXXXXXXXXXXXXXXXXXX ॥८ ॥
SR No.600296
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorJinharsh Gani, Vijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages220
LanguagePrakrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy