SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ श्रीप्रज्ञापनो पश्यत्तापदम् पांगम् ३०पश्यत्ता उक्कोसा य उवोगद्धा, ततो सोइंदियघाणिदियजिभिंदियफासिंदियाणं जहकम विसेसाहिया" भणिता, अतश्चक्षुषा प्रेक्षणमस्ति, न शेषाणामिति, चक्षुर्दर्शनवय॑मचक्षुर्दर्शनं, शेषेन्द्रियाणां मनसश्च यत्सामान्यग्रहणं तदचक्षुर्दर्शनं, ततः किमिति नोक्तं मनोऽधिकृत्य 24 अचक्षुर्दर्शनपासणया ? उच्यते, यस्मात् यो मनोद्रव्योपादानसमयात् प्रभृत्यर्थावबोधः स एवार्थावग्रहेहापायकाले प्रतिसमयमेव भवति, तत्र योर्थावग्रहकाले सामान्याववोधः सोऽचक्षुर्दर्शनाख्येनानाकारोपयोगेन गृहीतः, यस्त्वपायधारणाकाले स साकारोपयोगेन श्रुताख्येन गृहीत इति, अत उपयोगस्यैव पर्यायशब्दः पासणता इति । गुरवस्तु व्याचक्षते-“साकारपासणता श्रुतज्ञानादिषु अवबोधविशेषः, अणागारपासणता साक्षात्करणमात्र," चक्षुषा यथाऽक्षराणि पश्यतः संविदुपजायते तत्राक्षरसाक्षात्कारचक्षुषा |पश्यत्ता, तद्भेदाः कण्ठ्याः । जाव 'केवली णं भंते ! रयणप्पभ'मित्यादि, तत्र' आगारेहिं 'ति आकारमेदाः, यथा रत्नप्रभा त्रिकाण्डा खरपंकाब्बहुलकाण्डाख्या, खरकाण्डमपि षोडशभेदं रत्नवजवैडूर्यादिभेदं । 'हेतूहिं 'ति कारणेहिं, यथा केन कारणेन रत्नप्रमेति ? उच्यते, यस्मादस्या रत्नमयं प्रथम काण्डमिति । 'उपमाहिं 'ति, 'मा माने, उपमानमुपमा, उपमीयत इति वा उपमा, यथा रत्नप्रभाया, रत्नादीनि काण्डानि वर्णादिविभागेन कीदृशानि! पद्मरागेन्द्रनीलादिसदृशानीति। 'दिटुंतेहिं 'ति स्वगतभेदानुगमनेन शर्कराप्रभादिमेदव्यतिरेकेण च, यथा घटोऽन्वयव्यतिरेकवान् तथा रत्नप्रभाऽपीति । 'वण्णेहिं 'ति, शुक्लादिवर्णविभागेन, तेषामेव चोत्कर्षापकर्षसंख्येयासंख्येयानन्तगुणविभागेन, तथैव गन्धरसस्पर्शविभागेन । 'संठाणेहिं 'ति,यानि तस्यां भवननारकादीनां संस्थानानि, | यथोक्तं "ते गं भवणा वट्टा अंतो चउरंसा अहे पोक्खरकन्नियासंठाणसंठिया" इति । तथा " ते णं णरया अंतो वट्टा बाहिं | चउरंसा अहे खुरप्पसंठाणसंठिता" इति । 'पमाणेहिं 'ति, जह “असीउत्तरजोयण( सय )सहस्सबाहल्ला रज्जुप्पमाणमित्ता आयामविक्खंमेणं "ति । 'पडोयारेहिंति, यस्तस्याः परिवारो घनोदधिधनवलयादिः, शेषं कण्ठ्यं । प्रज्ञापनाप्रदेशव्याख्यायां त्रिंशत्तमपदव्याख्या समाप्ता ।। ॥६६॥
SR No.600295
Book TitlePragnapana Sutra Part 02
Original Sutra AuthorN/A
AuthorHaribhadrasuri, Shyamacharya
PublisherJinshasan Aradhak Trust
Publication Year2012
Total Pages96
LanguagePrakrit
ClassificationManuscript & agam_pragyapana
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy