________________
श्री.
कर्मप्रकृति | पदम्
प्रज्ञापनोपांगम् २३ कर्म
कार्पण्यात् नोत्सहते भोक्तुमिति । उपभोगान्तरायं पवमेव भावनीयं, नवरं भोगोपभोगयोरयं विशेष:-सकृद् भुज्यत इति भोगः, पुनः पुनः भुज्यत इति उपभोग इति, उक्तं च-" सति भुज्जतित्ति भोगो सो पुण आहारपुप्फमाईओ। उवभोगो पुणो पुण उवभुज्जति वत्थविलयादी ॥१॥" त्यादि । वीर्यान्तराय यदुदयात् सति बलवति शरीरे विद्यमाने साध्ये-प्रयोजने हीनसत्त्वदोषान्न प्रवर्त्तत इत्यादि । 'जं वेदेति पोग्गलं वा' प्रतिविशिष्टरत्नादिसम्बन्धात्तद्विषय एव दानान्तरायोदयः । सन्धिछेदनोपकरणसम्बन्धात् लाभान्तरायः। यत्कर्मोदयात् विशिष्टाहारादिसम्बन्धादन(र्थािर्थसम्बन्धाद् लोभतो वाभोगान्तरायकर्मोदयोऽपि भावनीयः । एवमुपभोगान्तरायकम्र्मोदयोऽपि भावनीयः। तथा बाह्यद्रव्यामिघाताद् वीर्योपघातदर्शनाद् वीर्यान्तराय इति । 'पोग्गले वा बहुए पोग्गलपरिणामं वा' तथाविधद्रव्याहारपरिणाममिति । वीससा पोग्गलाणं परिणाम' चित्रं शीतादिलक्षणं, तथा च शीताद्यमिभवादपि न दानादिभाव इति भावनीयं । तेसिं वा उदएण'मित्यादि, गतार्थ यावदुद्देशपरिसमाप्तेरिति । उक्तो ज्ञानावरणादीनामनुभावः, इदानीमुत्तरप्रकृतिविभाग उच्यते, तत्र विशेषपरिज्ञानार्थः प्रश्नः 'कति णं भंते!' इत्यादि, प्रश्ननिर्वचनसूत्रार्थः पूर्ववत्, तत्र शब्दादेरर्थस्य आभिमुख्येन नियतो-निश्चितो बोधः अभिनिबोधो स एवामिनिबोधिकं तच्च तत् ज्ञान च आभिनिबोधिकहानं तस्यावरणमामिनियोधिकज्ञानावरणं । शृणोती'ति श्रुतं, तदेव शानं तस्यावरणं श्रुतज्ञानावरणं । अवधीयते तेनास्मिन्नित्यवधिः-मर्यादा यस्मात्तया द्रव्यक्षेत्रकालभावा परस्परनिबद्धा मर्यादया शायन्ते तस्मादवधिः, स एव शानं अवधिज्ञानं तस्यावरण अवधिशानावरणं, परि-सर्वतो भावे, अवनं-गमनं मनसि मनसो वा पर्यवा., तेषां तेषु वा ज्ञानं मनःपर्यवज्ञानं तस्यावरणं मनःपर्यवज्ञानावरणं । केवलस्य-कृत्स्य-सम्पूर्णस्य द्रव्यादेयस्य ज्ञानं केवलज्ञानं तस्यावरणं केवलज्ञानावरण। दर्शनावरणीय निद्रादि, तत्र निद्रापञ्चक प्राप्ताया दर्शनलब्धरुपघातं करोति, सुखावप्रबोधात्मिका निद्रा, दुःखप्रबोधात्मिका निद्रानिद्रा, तिष्ठतः प्रचला, चंक्रमतः प्रचलाप्रचला, स्त्यानद्धिः-उदयाद्वासुदेवार्द्धबलसदृशो भवति। चक्षुरिन्द्रियेण श्रुतज्ञानावरणीय क्षयोपशमं नीत्वा सामान्यार्थावबोधः चक्षुर्दर्शनं, शेषैरिन्द्रियैर्मनसा च सामान्यार्थावबोधोऽचक्षुर्दर्शनं, अवधिज्ञानस्य सामान्यार्थावबोधः अवधिदर्शनं, केवलस्य
॥५१॥