________________
* शोभमन्यकम्र्मोदयनिर्वर्त्यत्वात् तेषामिति । इष्टा गतिर्मत्तवारणानुकारिणी, शिविकाद्यारोहणतचैके । इष्टा स्थितिः सहजा, सिंहासनादौ * चान्ये । इष्टं लावण्यं छायाविशेषलक्षणं, कुंकुमाद्यनुलेपनजमपरे । 'इट्ठा जसो कित्तित्ति, अत्र यशःकीत्यरयं विशेष: “दानपुण्यफला कीर्तिः, पराक्रमकृतं यश" इति, 'इट्टे उट्ठाणकम्मबलवी रियपुरिसक्कारपरकमे' तत्रोत्थानं देहचेष्टाविशेषः, कर्म-आरेचनभ्रमणादि, प्रज्ञापनो- * बलं - शारीरसामर्थ्यविशेषः, वीर्ये तु जीवप्रभवः, पुरुषकार:- अभिमानविशेषः सचेष्ट एव, निष्पादितस्वविषयः पराक्रम इति । पांगम्
श्री
२३ कर्म०
अन्ये तु व्याचक्षते - उद्वाणं-डिंडिकादीनां त्रिपादारूढानां यनयनं कर्म - हलादिसम्बन्धनं कृष्यादि, बलं हलादिव्यायामजं शरीरं, पराभिभवजास्तु वीर्यपुरुषकारपराक्रमा इति एतच नातीव संगतमुक्तन्यायादिति । 'इट्ठस्सरता' वल्लभस्वरता, तत्र इट्ठा सद्दा * इति सामान्योक्तावियं विशेषोक्तिस्तदन्यबहु (तम) सत्वापेक्षा वगन्तव्येति । 'कंतस्सरता' तब कान्ताः - कमनीयाः, सामान्यतोऽभिलषणीयाः * इत्यर्थः 'पियस्सरता' भूयो भूयोऽभिलषणीयः प्रियः, 'मणुण्णस्सरता' तत्रोपरतवाचोऽपि प्रीतः श्रोतृस्मृतिजनको मनोशः, 'जं वेदेति पोग्गलं वा' वीणावर्णकगन्धताम्बूलपट्टशिबिकासिंहासनकुंकुमदानगजयोगगुलिकादि, 'पोग्गलपरिणामं वा' ब्राह्मधाद्याहारपरिणामं, * 'वीसला वा पोग्गलाणं परिणामं' शुभजलदादिकं 'तेसिं वा उदरण' मित्यादि सूत्रसिद्धं, एतदेव विपरीतमशुभस्य भावनीयमिति । गोत्रचिन्तायां 'जातिविसिद्धतेत्यादि, तत्र जात्यादयः प्रकटार्थाः । 'जं वेदेति पोग्गलं वा' यतो बाह्यद्रव्यसम्बन्धान्नीच कुलोत्पन्नोऽपि राजा दिविशिष्टपुरुषसंपरिग्रहाद्वा जात्यादिसंपन्न इव मान्यो भवति, बलमपि लकुटादिभ्रमणात्, रूपं प्रतिविशेषालंकारसम्बन्धात्, तपस्तु गिरिकूटाद्यारोहणेनातापनां कुर्वतः श्रुतं तु मनोज्ञसुदेशसम्बन्धात्, 'पोग्गले वा' बहुए, 'पोग्गलपरिणामं वा' दिव्यफलाहारपरिणामं, 'वीससा पोग्गलाणं' आकस्मिकाभिहितजलदागमादिसंवादलक्षणा, 'तेसिं वा उदपण' मित्यादि, सूत्रसिद्धं । एतदेव विपरीतं नीचैर्गोत्रस्य । अन्तरायचिन्तायां 'दाणंतराय' इत्यादि, तत्र दानान्तरायं यदुदयात् सति विभवे सत्सु च पात्रेषु जानव वस्त्वसारतां दत्तस्य फलविशेषान्नोत्सहते दातुमिति । लाभान्तरायं यदुदयात् सत्यर्थित्वे सति च प्रसिद्धे तद्द्द्रव्यसमन्विते दातरि याञ्चाकुशलो याचन्नपि न लभत इति । भोगान्तरायं यदुदयात् सति विशिष्टाहारादौ असति वैराग्यजे प्रत्याख्यानपरिणामे
***
कर्मप्रकृति पदम्
॥५०॥