________________
श्री
अन्तक्रियापदम्
एकोनविंशतितमं तु निगदसिद्धमेव, नवरं सम्यग्मिथ्यादृष्टया प्रतिपद्यमान एव, न तु प्रतिपतन्तः "सम्मा मिच्छं न उण |* मीसंति धयणाओ" (?) ॥ प० १९ ॥
साम्प्रतं विंशतितममारभ्यते । अस्य चायमभिसंबंध:-इहानन्तरपदे सम्यक्त्वपरिणामः प्रतिपादितः, इह तु परिणामस्य
गतिपरिणामविशेषा एवान्तक्रियेति तत् प्रतिपादनार्थमिदमारभ्यते, इह चेदमादिसूत्र-'जीवे णं भंते अंतकिरियं करिज्जा' इत्यादि, तत्र प्रज्ञापनो
अमनमन्तः अवसानं, कस्य ? कर्मणः, तस्य तस्मिन् वा क्रिया अन्तक्रिया, कान्तकरणं मोक्ष इत्यर्थः, "कृत्स्नकर्मक्षयो मोक्ष" पांगम् | इति वचनात् , शेषं पुनः प्रायः सूत्रसिद्धमेव यावत् 'रयणप्पभापुढविनेरइप णं भंते !० अणंतरं उव्वट्टित्ता तित्थगरत्तं लमेज्जा?' १९ सम्यक
इत्यादि, अनंतरागता विवक्षितभवानन्तरभवस्था उच्यते, तथा स्त्रीणां विंशतिर्बहुतरप्रव्रजनात्, 'जस्स गं नेरयस्स तित्थगरनामगोत्ताई कम्माई बद्धाइ'ति-बन्धमात्र, पुट्ठाई, निधत्तानि-उद्वर्तनापवर्तनकरणवर्जशेषकरणायोग्यत्वेन व्यवस्थापितानीत्यर्थः, कडाइंतिनिकाचितानि सर्वकरणायोग्यत्वे व्यवस्थापितानि, पट्टवियाइंति मनुष्यगतिपंचेन्द्रियजातित्रसबादरपर्याप्तसुभगादेययश कीर्तिनामकर्मसहोदयत्वेन व्यवस्थापितानीत्यर्थः, "णिविट्ठाईति तीव्रानुभावतया, अभिसमन्वागतानीति-उदयाभिमुखीभूतानि, 'उदिण्णाई' विपक्कानि शेष ग्रन्थत एवानुसरणीयं, यावत् 'अह भंते !' इत्यादि तत्रासंजतभव्यद्रव्यदेवा के ? उच्यते, असंयताः-चारित्रपरिणामशून्याः, भन्याः-देवत्वयोग्याः, अत एव द्रव्यदेवा इति, समासश्चैवं असंयताश्च ते भव्यद्रव्यदेवाश्चेति, तत्रैते असंयतसम्यग्दृष्टयः किलेत्येके, यतः किलोक्तं-"अणुब्वमहन्वएहि य बालतवोऽकामनिजराए य । देवाउयं निबंधति सम्मदिट्ठी य जो जीवो ॥१॥" पतञ्चायुक्तं, यतोऽमीषामुत्कृष्टत उपरिमप्रैवेयकेषु उपपात उक्तः, सम्यग्दृष्टीनां तु देशविरतानामपि न तत्र विद्यते, देशविरतश्रावकाणामप्यच्युताद् ऊर्ध्वमगमनात्, [सम्यग्दृष्टीनां तु देशे] नाप्येते निवास्तेषामिहैव मेदेनाभिधानात् , तस्मान् मिथ्यादृष्टय एव भव्याभव्यमेदाः श्रमणगुणधारिणः अखिलसामाचार्यनुष्टानयुक्ता द्रव्यलिङ्गधारिणो गृह्यन्ते, तेऽप्यखिलकेवलक्रियाप्रभावत पवोपरिप्रैवेयकेषूत्पद्यन्त इति, असंयताश्च सत्यप्यनुष्ठाने चारित्रपरिणामशून्यत्वात् । अविराधितसंयमाः-प्रव्रज्याकालादारभ्याभप्रचारित्रपरिणामाः, स्वल्प
॥३५॥