________________
लेश्यापदे उद्देशः ४
प्रज्ञापनो
पांगम् १७ लेश्या०
भणियं होति, अस्मिंश्योद्देशके प्रायशः कृष्णादिलेश्यापरिणामयोग्यव्यगत एव विचारः, तथाचोत्तरप्रन्थः रूपादिनिरूपणात्मकद्रव्यगत एव कृष्णादिद्रव्ये न तथाभूतभावो भवति अतस्तान्येव द्रव्याणि लेश्या अभिधीयन्ते कृष्णादिलेश्यापरिणामकारणत्वात् कृष्णादिलेश्या एवेति, कारणं च कार्याद भिन्नमिति पृच्छति, 'कण्हलेसाणं भंते! केरिसया वण्णेण'मित्यादि, अन्यथा हि कण्हलेस्सा दव्या णं * भंते! केरिसया वण्णेणमित्येव वक्तव्यं स्यात्, शेषं गतार्थ, वण्णाहिकारे जो पत्थ कोइलच्छदो सो तिलकंटतो भण्णति, उब्वत्ततो(उच्चंतगो) दंतरागो भण्णति, वरपुरिसो वासुदेवो भण्णति, हीनमध्यमोत्तमात्रयः, पुनरपि हीने हीनादयस्त्रय इत्यादि, उत्पन्नविकल्पत्रयत्रिभेदतया बहुविधता वाच्या । प्रदेशचिंतायां तद्योग्यपरमाणवः प्रदेशा इति । अवगाहचिन्तायां-प्रदेशा:-क्षेत्र-24 प्रदेशा इति । वर्गणाः कृष्णलेश्यादियोग्यद्रव्यवर्गणा एव गृह्यते औदारिकादिवर्गणावत्, एताश्च वर्णादिभेदेन समानजातीयानेकसद्भावादनन्ता इति । स्थानचिंतायां तारतम्येन विचित्राध्यवसायनिबन्धनानि कृष्णादिद्रव्यवृन्दान्येव गृह्यन्ते, अन्यथा इहैव प्रदेशार्थचिन्तायामनन्तगुणत्वमुक्तमयुक्तं स्यात् , असंख्येयत्वं च, तथाविधैकपरिणामनिवन्धनानामनन्तद्रव्याणामप्येकाध्यवसायहेतुत्वेनैकत्वभावादिति, अत्र बहुवक्तव्यं तत्तु नोच्यते, अवचूर्णिकामात्रत्वात् प्रारम्भस्य । इह जहण्णलेसाट्ठाणपरिणामकारणभूता दव्या चेव जहण्णलेसटाणसहेण भण्णंति, ते य सट्टाणपरिणामगुणमेदओ असंखिज्जा भवंति, पत्थ निरिसणं, जहा फलिहमणिस्स अलत्तरागवसेण रत्तत्ता जा भवति सा जहण्णरत्तगुणालत्तगवसेण जहण्णा, एवमेगगुणवडीप जहण्णाए चेव रत्तत्ताप असंखिजा ठाणा हवंति, ते य ववहारतो थोवगुणत्तिकाउं जहण्णगा चेव भवति, एवम[प्यप्पणो वि लेस्सादव्वोयहाणवसतो परिणामविसेसा भावियब्वत्ति, उक्तं च "कृष्णादिद्रव्यसाचिव्यात् परिणामोऽयमात्मनः । स्फटिकस्येव तत्रायं, लेश्याशब्दः प्रयुज्यते ॥१॥" एवं उक्कोसगावि भाणियब्वा, एत्थ जदप्पमिति एकगुणाइ अब्भहियावि दवा जहण्णट्ठाणजोगा होति, ते पडुश्च पढमं कण्हलेसानीला-* दिसु दवट्ठाए चिंतनं, एवं उक्कोसगाणवि जहण्णुक्कोसगाणवि, पत्थ य दव्वगतगुणतारतम्ममेदे सत्यपि तारतम्येनानेकगुणकलि-| तैरपि लेण्याद्रव्यैरात्मन एकत्वविशिष्टोऽध्यवसायः क्रियते, अन्यथा द्रव्यगुणानामानंत्यादनंतानि स्थानानि स्युरिति सूक्ष्मधिया *
॥२९॥