SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ श्री * प्रज्ञापनो पांगम १३ परिणाम० ** तुजण्णा, उक्कोस हवंति पुव्वकोडीओ। णवहिं वरिसेहिं ऊणा णायव्वा सुक्कलेसाए ॥ १ ॥” योगपरिणामे च सति लेश्यापरिणामः यस्मान्निरुद्धयोगस्य परिणामोऽपैति यतः समुछिन्नक्रियं ध्यानमलेश्यस्य भवति, संसारिणां च योगपरिणतावुपयोगपरिणतिर्भवति अतो योगपरिणामानंतरमुपयोगपरिणामः, सति चोपयोगपरिणामे ज्ञानपरिणामः ज्ञानाज्ञानपरिणामे च सति सम्यग्रमिथ्यापरिणतिः, सम्यग्दर्शनपरिणामे च चारित्रपरिणामः, ख्यादिवेदपरिणामे चारित्रपरिणामः नतु चारित्रपरिणामे वेदवृत्तिः यस्मादवेदकस्यापि यथाख्यातचारित्रपरिणतिर्दृष्टा, एवमेते गत्यादिपरिणामविशेषा हेतुहेतुमद्भावेनोपदिष्टाः सामान्यतः, इदानीमुत्तरो ग्रन्थः संख्याभेदेन * परिणामभेदेन चानुसरणीयः, 'अजीवपरिणामे दसविहे बंधणपरिणामादितः, बंधनपरिणामस्य इदं लक्षणं "समणिद्धयाए बन्धोण * होति समक्खयाए faण होति । वेमाइयणिद्धलुक्खत्तणेण बंधो उ खंधाणं" ॥ १ ॥ एतदुक्तं भवति समगुणस्निग्धस्य समगुणस्निधेन परमाण्वादिना बंधो न भवति, तथा समगुणरूक्षस्यापि यदा पुनर्विषमा मात्रा तदा भवति बंध, विषममात्रापि निरूपणार्थ* मुच्यते - "णिद्धस्स णिद्वेण दुयाहिपणं लुक्खस्स लुक्खेण दुयाहिरणं । णिद्धस्स लुक्खेण उवेति बंधो, जहण्णवज्जो विसमो समो वा ॥ १ ॥ यदा स्निग्धगुणस्य परमाण्वादेः स्निग्धगुणेनैव बंधो भवति तदा द्वयधिकादिगुणेनैव, रूक्षगुणस्यापि रूक्षगुणेन द्व्यधिकादिगुणेन, यदा पुनः स्निग्धरूक्षयोर्वन्धस्तदा कथम् ? उच्यते- जघन्यगुणं वर्जयित्वा, जघन्यगुणमिति एकगुणस्निग्धं एकगुणरूक्षं च, शेषस्य द्विगुणस्नि* ग्धस्य द्विगुणरूक्षादिना सर्वत्र बन्धो भवति, 'फुसमाणगतिपरिणामो' येन प्रयत्नविशेषात् क्षेत्रप्रदेशान् स्पृशन् गच्छतीति, 'अफुलमाण- * गतिपरिणामो' तु येनास्पृशन्नेव, न च सम्भाव्यते खल्वयं परिणामः गतिमद्द्रव्याणां प्रयत्न मेदोपलब्धेः तथाहि अभ्रंक हर्म्यतलगतविमुक्ामप्रपातकाल उपलभ्यते, मनवरगतिप्रवृत्तत्वाश्च देशान्तरप्राप्तिकालभेदश्चेत्यतः सम्भाव्यते (न) अधिकृतपरिणाम इति, * अथवा 'दीहगतिपरिणामे य हस्सगतिपरिणामे य' तत्थ दीहगतिपरिणामे इति विप्रकृष्टदेशान्तरप्राप्तिपरिणामः, ह्रस्वगतिपरिणाम:, * इति सन्निकृष्टदेशान्तरप्राप्तिपरिणामः, 'सुब्भिसहेति' शुभः शब्दः 'दुम्भिसदेत्ति' दुर्भिशब्द इति शेषं गतार्थम् ॥ ॥ प्रज्ञापनाप्रदेशव्याख्यायां त्रयोदशपरिणामपव्याख्या समाप्तेति ॥ * परिणाम पदम् 113811
SR No.600295
Book TitlePragnapana Sutra Part 02
Original Sutra AuthorN/A
AuthorHaribhadrasuri, Shyamacharya
PublisherJinshasan Aradhak Trust
Publication Year2012
Total Pages96
LanguagePrakrit
ClassificationManuscript & agam_pragyapana
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy