________________
श्रीमज्ञा० श्रीहारि०
साम्प्रतं दशममारभ्यते, अस्य चायममिसम्बन्धः - इहानन्तरपदे सच्चानां योनयः प्रतिपादिताः, साम्प्रतं यचत् उपपातक्षेत्रं रत्नप्रभादि तस्य चरमाचरमविभागप्रदर्शनार्थमिदं प्रक्रम्यते, तत्रेदमादिसूत्रं - 'कह णं भंते! पुढबीओ पण्णत्ताओ' इत्यादि, निगदसिद्धं यावत् 'इमा णं भंते! रयणप्पभा पुढवी किं चरिमा अचरिमे त्यादि पुच्छा, अथ केयं चरमाचरमपरिभाषेति ?, अत्रोच्यते - चरिमं नाम प्रांतपर्यन्तवर्ति, आपेक्षिकं चरमत्वं यदुक्तमन्यद्रव्यापेक्षया इदं चरमं द्रव्यमिति, यथा पूर्व- * * शरीरापेक्षया चरमं शरीरमिति, तथा अचरमं नाम प्रान्तमध्यवर्त्ति, आपेक्षिकं चाचरमत्वं यदुक्तमन्यद्रव्यापेक्षया इदमचरमद्रव्यं, * यथाऽन्यशरीरापेक्षया मध्यशरीरमिति, चरमाई अचरमाइंति बहुवचनप्रश्नः, चरिमंतप्रदेशा अचरिमंतपदेसति, चरमान्येवान्तवर्त्तित्वादन्ताश्वरमान्ताः तेषां प्रदेशा इति समासः, तथा अचरममेवान्तः अचरमान्तस्तस्य प्रदेशा इति विग्रहः, अचरिमान्तप्रदेशा इति भावनीयं, गो० ! णो चरिमा णो अचरिमा, चरिमाचरिमत्वमेतदापेक्षिकं, अपेक्षाऽभावाच्च कथं चरिमा भविव्यति, अचरमत्वमप्यन्यापेक्षयैव भवति, कथमन्यापेक्षया चरिमत्वं १, यदि रत्नप्रभाया बाह्यतोऽन्या पृथिवी स्यात् तस्यामवस्थाया* मचरमत्वं युज्यते, न चास्ति, तस्मान्नाचरमा, अयं च वाक्यार्थः - किमियं रलप्रभा पश्चिमा उत मध्यमेति, तदेवत् द्वितीयमपि * यथा न संभवति तथोक्तं, इदानीं नोचरिमाइंति नोअचरिमाइंति, कहं १, यदा चरमव्यपदेशा चैव नत्थि तदा चरिमाई कहं भवि *स्संति, एवं अचरिमाइंपि, तेण णोचरिमाई णोअचरिमाई, णोचरिमंतपदेसा णोअचरिमंतपदेसत्ति, अत्रापि चरमत्वस्याचरमत्वस्य
चाभावात् प्रदेशकल्पनाया अप्यभाव इत्यत उक्तलक्षणा णोचरिमंतपदेसाणोअचरिमंतपदेसा रत्नप्रमेति, किं तर्हि १, नियमेन अचरिमं चरिमाणि य, एतदुक्तं भवति- अवश्यंतयैव केवलभंगवाच्या न भवति, अवयवावयविरूपत्वादसंख्येय प्रदेशाव गाढत्वाद्यथो
१० चरम ० *
।
*
चरमादिस्वरूपं
॥६४॥