________________
जहि॥२७॥लोकानुवर्तनं त्यक्ता त्यत्वा देहानुवर्तनम्। शास्त्रानुवर्तनं त्यक्त्वा खाध्यासापनयं कुरु॥२७३॥ . लोकवासनयाजन्तोः शास्त्र वासनायापि च । देहवासनयाज्ञानं यथावन्नैव जायते ॥ २७४ ॥ संसार कारागृहमोन मिच्छो रयोमयं पादनिबन्ध टङ्कलम् । वदन्ति तज्ज्ञाः पटुवास नवयं योऽस्मादिमुक्तः समुपैति मुक्तिम् ॥२७५ ॥ जलादि सम्पर्कवशात प्रभूतदुर्गन्धधूता गुरुदिव्यवासना । संघर्षणेनैव वि भाति सम्यग्विधूयमाने सति बाह्य गन्धे ॥ २७६ ॥ अन्तःथितानन्तदुरन्तवासना धूलीविलिप्ता परमात्म बासना। प्रनातिसंघर्षणतो विशुद्धा प्रतीयते चन्दनगन्धवत् स्फुटम् ॥ २७७ ॥ अनात्मवासनाजालै स्तिरो भूतात्मवासना। नित्यात्मनिष्ठया तेषां नाशोभाति खयं स्फुटम् ॥२७८। यथा यथा प्रत्यगवस्थित मनस्तथा - तथा मुञ्चति वाह्य वासनाम् । 'निःशेष मोक्षे सति वासनानामात्मानुभूतिः प्रतिबन्ध मन्या ॥ २७६ ॥ खात्मन्येव सदास्थित्वा मनो नश्यति योगिनः । वासनानां क्षयश्चातः खाध्यासापनयं कुरु ॥ २८० ॥ तमो
विवेकचूडामणिः