________________
नमस्कार .8 हि प्रथममेव साटकेन कक्षो बध्ध्वा अतः परं कृतावश्यककक्षाबन्धकरणः योद्धमारभते, तथाऽन्तर्मुहूर्तायुःशेषेण केवलिना सिध्यता 151
कमेक्षयव्याख्यायां प्रथममेवेदं करणं अवश्यं कर्तव्यमित्यावश्यककरणमिति । केचिदावर्जितकरणमिति वर्णयंति, तेषामप्यावर्जितशब्दस्याभिमुखपर्यायवाचित
सिद्धः ॥५७०॥
त्वात् आवर्जितकरणसिद्धिः, कथम्?, आवर्जितमनुष्यवत् , यथा लोके दृष्टमेतद् आवर्जितःमनुष्यः,अभिमुखः कृत इति, तथा च सिध्यतः सिध्यत्वपर्यायपरिणामाभिमुखीकरणं यत्तदावर्जितकरणं, येन कारणेन परिणत आत्मा नियमात् सिध्यत्पर्यायपरिणामाभिमुखो भवतीत्यर्थः, सर्वे च भगवंतः सिध्यन्तः केवलिनस्तीर्थकराश्च नियमादावश्यककरणं कुर्वन्ति, समुद्घातं तु केचित्कुर्वन्ति केचिन्नेति ॥ तत आवश्यककरणे कृते ये केवलिनः समुद्घातं कुर्वन्ति तत्प्रक्रियाऽऽविष्करणार्थमिदं प्रयते- येऽन्तर्मुहूर्तमादिकृत्वोत्कर्षेण आ मासेभ्य: षड्भ्यः आयुषोऽवशिष्टेभ्यः अभ्यन्तर आविर्भूतकेवलज्ञानपर्यायाः ते नियमात्समुद्घातं कुर्वन्ति, ये तु षण्मासेभ्य उपरिष्टादावि|भूतकेवलज्ञानाः शेषास्त समुद्घातकाद् बाह्याः, ते समुद्घातं न कुर्वन्तीत्यर्थः, शेषाः समुद्घातं प्रति भाज्याः, कस्माद् ?, यस्मात् पाण्मासिकावशिष्टे आयुषि आविर्भतकेवलज्ञानपर्यायेभ्यः सकाशात् षड्भ्यो मासेभ्यः ये उपरि समयोत्तरवृद्ध्याऽवशिष्टे आयुषि शेष आविर्भूतज्ञानाः केवलिनः ते शेषाः समुद्घातं प्रति भाज्याः, केचित्समुद्घातं कुर्वन्ति केचिन्नेति, अतः केचित्समुद्घातं कृत्वा केचिदकृत्वैव समवाप्नुवन्ति सिद्धि, अथवा येषां बहु संवेद्यमस्ति आयुश्चाल्पमवतिष्ठते ते नियमात्समुद्घातं कुर्वति, नेतर इति ।। * ॥५७०॥ अथ ये समुद्घातं कुर्वन्ति तेषां को विधिरिति प्रश्ने तदाविष्करणार्थमाचक्ष्महे-ते दंडकादिक्रमेण कुर्वन्ति, तत्र प्रथमसमये औदारिककाययोगस्थाः दंडकं कुर्वन्ति, अथ दंडक इति कोऽर्थः?, दंडक इव दंडकः, क उपमार्थः १, यथा मूलमध्याग्रे ऊध्बोधः समप्रदेशः परिवृत्तपर्यायः स दंडकः, तथा सम्रद्घातकरणवशानिर्गतानामात्मप्रदेशानां दंडकसंस्थानेनावस्थानाइंडकत्व