________________
श्रीअनु वादिति भावः, स भदन्त ! अग्निकायस्य-वढेमध्यंमध्येन-अंतरेण गच्छेत्-यायात् ?,हन्त गच्छेत् , स तत्र दह्यतेत्यादि पूर्ववत् , नवरं शस्त्रमग्नि-18 उत्सेधांगुलं हारि.वृत्तौ । मयं गृह्यत इति, अवादि च-'सत्थग्गिविस' मित्यादि, एवं पुक्खलसंवर्त्तमपि भावनीयं, नवरं अस्यैवं प्ररूपणा 'इह वद्धमाणसामिणो निव्वा॥८ ॥
णकालाओ तिसट्ठीए वाससहस्सेसु ओसप्पिणीए (पंचमछट्ठारगेसु उस्साप्पिणीए) य एकवीसाए वीइस्तेसु एत्थ पंच महामेहा भावस्संति, तंजहा-पढमे पुक्खलसंवट्टए य उदगरसे बीए खीरोदे तइए घओदे चउत्थे अमितोदे पंचमे रसोदे, तत्र पुक्खलसंवत्तॊऽस्य भरतक्षेत्रस्य अशुभभावं पुष्कलं संवर्तयति, नाशयतीत्यर्थः, एवं शेषनियोगोऽपि प्रथमानुयोगानुसारतो विज्ञेयः, स भदन्त ! गंगाया महानद्याः प्रतिश्रोतो हव्य-शीघ्रमागच्छेत् १, स तत्र विनिघातं-प्रस्खलनमापोत-प्राप्नुयान्छेषं पूर्ववत् , स भदन्त ! उदकावर्त्त वा उदकबिंदु वा अवगाह्य ति| टेन् , स तत्रोदकसंपर्कात्कुध्येत वा पर्यापद्येत वा?, कुथनं पूतिभावः, पर्यायापत्तिस्तु अन्यरूपापत्तिः, शेषं सुगम, यावत् अनन्तानां व्यावहारिकपरमाणुपुद्गलानां समुदयसमितिसमागमेन सा एका उच्छूक्ष्णश्लक्ष्णिकति वेत्यादि, अत्र उच्छ्क्ष्ण श्लक्षिणकादीनामन्योऽन्याष्टगुणत्वे सत्यप्यनंतत्वादेव परमाणुपद्गलसमुदायस्याद्योपन्यासोऽविरुद्ध एव, तत्र लक्ष्णश्नक्षिणकाद्यपेक्षया उत्-प्राबल्येन श्लक्ष्णमात्रा उच्छ्क्ष्ण श्लदणोच्यते, लक्ष्णलक्ष्णा त्वोघत ऊध्वरेण्वपेक्षया ऊर्ध्वाधस्तिर्यकचलनधर्मोपलभ्यः ऊर्ध्वरेणुः, पौरस्त्यादिवायुप्रेरितस्त्रस्यति-च्छतीति त्रसरेणुः, रथगमनोत्खातो रथरेणुः, वालाग्रलिक्षायूकादयः प्रतीताः, शेष प्रकटार्थ यावदधिकृतांगुलाधिकार एव, नवरं नारकाणां जघन्या भवधारणीयशरीरावगाहना अंगुलासंख्येयभागमात्रा उत्पद्यमानावस्थायां, न त्वन्यदा, उत्तरवैक्रिया तु तथाविधप्रयत्नाभावादाद्यसमयेऽप्यंगुल संख्येयभागमात्रैवेति, एवमसुरकुमारादिदेवानामपि, नवरं नागादीनां नवनिकायदेवानामुत्कृष्टोत्तरवैक्रिया योजनसहस्रमित्येके, पृथिवीकायिकादीनां त्वंगुलासंख्येयभागमात्रतया तुल्यायामप्यवगाहनायां विशेषः, 'वणऽणतसरीराण एगाणिलसरिगं पमाणेण । अणलोदगपुढवीणं असंखगुणिया भवे वुड्डी |
5e5ORNSRCE