SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ श्रीअनु०ा द्वाराणि-नगरप्रवेशमुखानि, सामायिकपुरस्यार्थाधिगमोपायद्वाराणीत्यर्थः भवंति, 'तद्यथे' त्युपन्यासार्थः ‘उवकमे' त्यादि, इह ची हारि.वृत्तीनगरदृष्टान्तमाचार्याः प्रतिपादयन्ति, यथा यकृतद्वारमनगरमेव भवति, कृतकद्वारमपि दुरधिगमनं कायोतिपत्तये च, चतुमूलद्वारं तु प्रतिद्वारा- पान नुगतं सुखाधिगम कार्यानतिपत्तये च, एवं सामायिकपुरमप्यधिगमोपायद्वारशून्यमशक्याधिगमं भवति, एकद्वारानुगतमपि च दुरधिगम, योगनया॥२७॥ सप्रभेदचतुर्दारानुगतं तु सुखाधिगममित्यतः फलवान द्वारोपन्यास इति, तत्रोपक्रमणमुपक्रम इति भावसाधनः, शास्त्रस्य न्यासदेशसमीपीकर- नां क्रमः माणलक्षणः, सपक्रम्यते वाऽनेन गुरुवाग्योगनेत्युपक्रम इति करणसाधनः, उपक्रम्यतेऽस्मादिति वा विनीतविनेयविनयादित्युपक्रम इत्यपादान-18 | साधनः, तथा च शिष्यो गुरुं विनयेनाराध्यानुयोगं कारयन्नात्मनाऽपादानार्थे वर्त्तत इति । एवं निक्षेपणं निक्षेपः निक्षिप्यते वा अनेनास्मिन्न| स्मादिति वा निक्षेपः न्यासः स्थापनेति पर्यायः, एवमनुगमनमनुगम: अनुगम्यतेऽनेनास्मिन्नस्मादिति वाऽनुगमः, सूत्रस्यानुकूल: परिच्छेद इत्यर्थः, एवं नयनं नयः नीयतेऽनेनास्मिन्नस्मादिति वा नयः, अनन्तधर्मात्मकस्य वस्तुन. एकांशपरिच्छद इत्यर्थः। आह-एषामुपक्रमादिद्वाराणां किमित्येवं क्रम इति, अत्रोच्यते, न बनुपक्रान्तं सदसमीपीभूतं निक्षिप्यते, न चानिक्षिप्तं नामादिभिरर्थतोऽनुगम्यते, न चार्थतोऽननुगते नयर्विचार्यत इत्यतोऽयमेव क्रम इति, उक्त च--- संबध्धमपक्रमतः समीपमानीय रचितनिक्षेपम् । अनुगम्यतेऽथ शास्त्रं नयैरनेकप्रभेदैस्तु ॥१॥ तत्रोपक्रमो द्विप्रकार:-शास्त्रीय इतरश्च, तत्रेतराभिधित्सयाऽऽह-से किं त' मित्यादि (६०-४५) वस्तुतो भावितार्थमेव, यावत् 'से किं तं जाणगसरीरभवियसरीरवइरित्ते दब्बोवकमे' इत्यादि, त्रिविधः प्रज्ञप्तस्तद्यथा--'सचित्ते ' त्यादि, (६१-४६) द्रव्योपक्रम इति वर्त्तते, शेषाक्षरार्थः सचित्तद्रव्योपक्रमनिगमनावसान: सूत्रसिद्ध एव, भावार्थस्त्वयमिह--'सचित्ते' त्यादि, द्रव्योपक्रमः द्विपदचतुष्पदापदभेदभिन्नः,एकैको ॥२७॥ द्विविध:--परिकर्मणि वस्तुविनाशे च, तत्र परिकर्म-द्रव्यस्य गुणविशेषपरिणामकरणं तस्मिन् सति, तद्यथा-घृताद्युपयोगेन नटादीनां वर्णा CANCE
SR No.600289
Book TitleAnuyogdwar Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages222
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy