________________
अपश्चिमपूर्वभृत्सकलसिद्धान्तारोहकेभ्यः श्रीदेवद्धिंगणिक्षमाश्रमणेभ्यो नमः ।
श्रीविनयविजयोपाध्यायरचितसुबोधिकाख्यवृत्तियुतंश्रुतकेवलिश्रीभद्रबाहुस्वामिप्रणीतं श्रीकल्पसूत्रम्।
ॐॐॐॐॐ
णमो अरिहंताणं णमो सिद्धाणं णमो आयरियाणं णमो उवज्झायाणं णमो लोए सव्वसाहणं, एसो पंचणमुक्कारो, सव्वपावप्पणासणो। मंगलाणं च सव्वेसिं, पढम हवइ मंगलं ॥१॥ पुरिमचरिमाण कप्पो मंगलं वद्धमाणतित्थमि । इह परिकहिया जिणगणहराइथेरावालि चरितं ॥१॥
प्रणम्य परमश्रेयस्करं श्रीजगदीश्वरम् । कल्पे सुबोधिकां कुर्वे, वृत्तिं बालोपकारिणीम् ॥१॥ यद्यपि बह्वयष्टीकाः कल्पे सन्त्येव निपुणगणगम्याः । तदपि ममायं यत्नः फलेग्रहिः स्वल्पमतिबोधात्॥२॥ यद्यपि भानु द्युतयः सर्वेषां वस्तुबोधिका बह्वयः । तदपि महीगृहगानां प्रदीपिकैवोपकुरुते द्राक् ॥ ३ ॥ नास्यामर्थविशेषो न युक्तयो नापि पद्यपाण्डित्यम् । केवलमर्थव्याख्या वितन्यते बालबोधाय ॥४॥हास्यो न स्यां सद्भिः कुर्वन्ने