________________
न्या०९ ॥१७७॥
ग्लानार्थ | विकृत्यान सायनं सू.१८
॥१७७॥
NAGARSHANKAR
ग्लानस्य, ततो गुरुराह-(जं से पमाणं वयह ) यत् स ग्लानः प्रमाणं वदति ( से य पमाणओ चित्तब्वे) तत्प्रमाणेन 'से' इति तद्विकृतिजातं ग्राह्यं त्वया, ततः ( से य विनविजा) स च वैयावृत्त्यकरादिः विज्ञापयेत्, कोऽर्थों ?-गृहस्थपार्थात् याचेत, विज्ञप्तिधातुरन याच्ञायां (से य विन्नवेमाणे लभिजा) स वेयावृत्त्यकरो याचमानो लभेत तद्वस्तु क्षीरादि ( से य पमाणपत्ते) अथ च तद्वस्तु प्रमाणप्राप्त-पर्याप्तं जातं ततश्च ( होउ अलाहि इय वत्तव्वं सिआ) तत्र 'होउत्ति भवतु इतिपदं साधुप्रसिद्धं इच्छमितिशब्दस्यार्थे, अलाहित्ति सूतं इत्यर्थे, इति पदद्वयं गृहस्थं प्रति वक्तव्यं स्यात् , ततो गृही ब्रूते-(से किमाहु भंते!) अथ किमाहुर्भदन्ताः!, कुतो भवन्तः सृतमिति ब्रुवते इत्यर्थः, ततः साधुराह-(एवइएणं अट्ठो गिलाणस्स) एतावतैव अर्थोऽस्तीति, ततः (सिया णं एवं वयंतं परो वइजा) स्यात्-कदाचित् ण इति वाक्यालङ्कृतौ एवं वदन्तं साधु प्रति परो-गृहस्थो वदेत् , यत् (पडिगाहेहि अन्जो ! पच्छा तुमं भोक्खसि वा पाहिसि वा ) हे आर्य ! साधो प्रतिगृहाण पश्चात्-ग्लानभोजनानन्तरं यदधिकं तत् त्वं भोक्ष्यसे-भुञ्जीथाः पक्कान्नादिकं पास्यसि-पिबेः क्षीरादिकं, कचित् 'पाहिमि'त्तिस्थाने 'दाहिसि'त्ति दृश्यते, तदा तु स्वयं भुञ्जीथाः अन्येभ्यो वा दद्या इति व्याख्येयं, ( एवं से कप्पड़ | पडिगाहित्तए ) एवं तेनोक्त तत् कल्पते अधिकं प्रतिग्रहीतुं, (नो से कप्पड गिलाणनीसाए पडिगाहित्तए) न च पुनग्लाननिश्रया गाात् स्वयं ग्रहीतुं, ग्लानार्थ याचितं मण्डल्यां नानेयमित्यर्थः ॥ (२८)।
(वासावासं पज्जोसवियाण ) चतुर्मासकं स्थितानां (अस्थि णं थेराणं तहप्पगाराई कुलाई) अस्त्येतत् णं