SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ ॥ अथ नवमं व्याख्यानं प्रारभ्यते ॥ ॥ अथ सामाचारीलक्षणं तृतीयं वाच्यं वक्तुं प्रथमं पर्युषणा कदा विधेयेत्याह - ( तेणं कालेणं) तस्मिन् काले ( तेणं समएणं) तस्मिन् समये ( समणे भगवं महावीरे ) श्रमणो भगवान् महावीरः ( वासाणं सवीसहराए मासे विकते ) आषाढचातुर्मासिकदिनादारभ्य वर्षाकालस्य विंशतिदिनयुक्ते मासे व्यतिक्रान्ते ( वासावासं पज्जोसवेह ) पर्युष 'णामकरोत् ॥ (१) ॥ ( से केणट्ठेणं भंते ! एवं बुच्चह) तत् केन अर्थेन - कारणेन हे पूज्य ! एवं उच्यते - ( समणे भगवं महावीरे ) श्रमणो भगवान् महावीर : ( वासाणं सवीसहराए मासे वि कंते ) वर्षाकालस्य विंशतिदिनयुक्ते मासे व्यतिक्रान्ते सति ( वासावासं पज्जोसवेह) पर्युषणामकरोत् इति शिष्येण प्रश्ने कृते गुरुः उत्तरं दातुं सूत्रमाह - ( जओ णं पाएणं अंगारीणं अगाराई ) यतः कारणात् प्रायेण अगारिणां गृहस्थानां अगाराणि - गृहाणि (कडिआई) कटयुक्तानि ( उक्कंबियाई ) धवलितानि ( छन्नाई) तृणादिभिराच्छादितानि (लित्ताइं ) गोमयादिना लिप्तानि ( गुत्ताइं ) वृत्तिकरणादिना गुप्तानि ( घट्टाई ) विषमभूमिभङ्गाद् घृष्टानि ( मट्ठाई ) पाषाणखण्डेन घृष्ट्वा सुकुमालीकृतानि ( संपधूमियाइं ) सौगन्ध्यार्थं धूपैर्वा - सितानि ( खाओदगाइं ) कृतप्रणालीरूपजलमार्गाणि ( खायनिद्धमणाइं ) सज्जितखालानि, एवंविधानि (अप्प१ अवस्थानपर्युषणापेक्षयेवैतद सूत्रं ततो जिनस्य सांवत्सरिकप्रतिक्रमणस्याभावेऽपि न क्षतिः, अत एवाझे 'अगारीणं अगाराई' इत्या दिनाऽवस्थानोपयोग्येवोत्तरं श्रीवीरस पर्युषणाकालस्तद्धेतुब सू. १-२
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy