________________
यश्चैकदा दर्भिक्षे सई पटे संस्थाप्य ससुभिक्षां पुरिकापुरी नीतवान् , तत्र बौद्धेन राज्ञा जिनचैत्येषु पुष्पनिषधः कृतः, अत्रापि किरणावलीदीपिकयोऊद्धराज्ञेति प्रयोगो लिखितःचिन्त्यः, तदनु पर्युषणायां
श्रीवजखाश्राद्धविज्ञप्तो व्योमविद्यया माहेश्वरीपुर्यां पितृमित्रमारामिकं पुष्पप्रगुणीकरणार्थमादिश्य स्वयं हिमवदद्रौ
| मिवृत्तं श्रीदेवीगृहे गतः, ततश्च श्रिया दत्तं महापद्मं हुताशनवनाविंशतिलक्षपुष्पाणि च लात्वा जृम्भकामरविकु. वितविमानस्थः समहोत्सवमागत्य जिनशासनं प्रभावयन् राजानमपि श्रावकं चक्रे, अन्यदा स श्रीवज्रस्वामी कफोद्रेके भोजनादनु भक्षणाय कर्णे स्थापितायाः शुण्ठयाः प्रतिक्रमणवेलायां पाते प्रमादेन 15 स्वमृत्यु आसन्नं विचिन्त्य द्वादशवर्षीयदुर्भिक्षप्रवेशे स्वशिष्यं श्रीवज्रसेनाभिधं-लक्षमूल्यौदनाद भिक्षां, यत्राहि त्वमवाप्नुयाः । सुभिक्षमवबुद्धयेथास्तदुत्तरे दिनोषसि ॥१॥ इत्युक्त्वा अन्यत्र व्यहारयत् , स्वयं च स्वसमीपस्थसाधुभिस्सह रथावर्तगिरी गृहीतानशनो दिवं प्राप, तत्र च संहननचतुष्कं दशमं पूर्वं च व्युच्छिन्नं, यत्तु किरणावलीकारेण तुर्य संहननं व्युच्छिन्नमिति लिखितं तच्चिन्त्यं, तन्दुलवैचारिकवृत्तिदीपालिकाकल्पादौ चतुष्कव्युच्छेदस्यैवोक्तत्वात् । तदनु च श्रीवज्रसेनः सोपारके जिनदत्तश्राद्धगृहे तत्पल्या ईश्वरीनाम्न्या लक्षमूल्यमन्नं पक्त्वा प्रक्षिप्यमाणं विषं गुरुवचः प्रोच्य न्यवारयत्, प्रभाते पोतेः प्रचुरधान्यागमनात् सञ्जाते
। दुष्कर्मावनिमिद्वन, श्रीवद्रे स्वर्गमीयुषि । व्युच्छिन्नं दशमं पूर्व, तुर्य संहननं तथा ॥ ॥ इति परिशिष्टपर्वणि श्रीहेमचन्द्राचार्याः, तमि य निम्बुए अदनारायसंघयणं बुनिं' इत्यावश्यकचूर्णिवृत्त्योः, तन्दुलवैचारिकादौ तु तत्तदवाधिकालतया वचनं ।
ANCHOCALORCANEWS