SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ तत्र देवोपसर्गः कमठसम्बन्धी, म चैवं खामी प्रव्रज्यैकदा विहरन तापसाश्रमे कूपसमीपे न्यग्रोधाधो निशि प्रतिमया स्थितः इतः स मेघमाली सुराधमः श्रीपार्श्वमुपद्रोतुं आगत्य क्रोधान्धः स्वविकुर्वितशार्दूलवृश्चि कादिभिरभीतं प्रभुं निरीक्ष्य गगनेऽन्धकारसन्निभान् मेघान् विकुर्व्य कल्पान्तमेघवदूर्षितुं आरेभे, विद्युतश्च अतिरौद्राकारा दिशि दिशि प्रसृताः, गजरथं च ब्रह्माण्डस्फोटसदृशं अकरोत् क्षणादेव च प्रभुनासाग्रं यावज्जले प्राप्ते आसनकम्पेन धरणेन्द्रो महिषीभिः समं आगत्य फणैः प्रभुं आच्छादितवान्, अवधिना च | विज्ञातोऽमर्षेण वर्षन् मेघमाली धरणेन्द्रेण हकितः प्रभुं शरणीकृत्य स्वस्थानं ययौं, धरणेन्द्रोऽपि नाट्यादिभिः प्रभुपूजां विधाय स्वस्थानं ययौ, एवं देवादिकृतानुपसर्गान् सम्यक सहते ॥ ( १५८ ) | (तपणं से पासे भगवं अणगारे जाए ) ततः स पार्श्वो भगवान् अनगारो जातः ( ईरियासमिए जाव अप्पाणं भावेमाणस्स ) ईर्यायां समितः यावत् आत्मानं भावयतः ( तेसीइं राहंदियाई विकताई ) त्र्यशीतिः अहोरात्रा व्यतिक्रान्ताः (चउरासीइमस्स राईदियस्स अंतरा वट्टमाणस्स ) चतुरशीतितमस्य अहोरात्रस्य अन्तरा वर्तमानस्य (जे से गिम्हाणं पढमे मासे पढमे पक्खे ) योऽसौ ग्रीष्मकालस्य प्रथमो मासः प्रथमः पक्षः (चित्तबहुले ) चैत्रस्य बहुलपक्षः - कृष्णपक्ष ( तस्स णं चित्तबहुलस्स ) तस्य चैत्रबहुलस्य चतुर्थीदिवसे (कालसमयंसि ) पूर्वाह्नकालसमये - प्रथमप्रहरे ( घायइपायवस्स अहे) घातकीनामवृक्षस्य अध ( छणं भत्तेणं अपाणएणं ) षष्ठेन भक्तेन अपानकेन - जलरहितेन ( विसाहाहिं नक्खत्तेणं जोगमुवागणं ) केवलोत्पचिः म. १५९
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy